________________
प्रवचनसारोद्धारे सटीके
द्वितीयः
११२८
सम्प्रति ज्योतिष्कदेवदेवीमामुत्कृष्टां जघन्यां च स्थितिमाह-'पलिये' त्यादिगाथाद्वयम् ,
||१९४ द्वा ज्योतिष्कदेवास्तावचन्द्रा-ऽऽदित्य-ग्रह-नक्षत्र-तारकभेदात्पञ्चविधाः, तद्देव्योऽपि पश्चविधा इति सर्वेऽपि
भवनपत्या दशविधाः । तत्र शशिनाम्-असङ्ख्येयद्वीपसमुद्रवर्तिचन्द्रविमानवासिंदेवानां सवर्षलक्षं-वर्षाणां लक्षेणाधिक
दिनां पन्योपममुत्कृष्टमायुः । एवं स्वीणाम्-आदित्यानामशेषाणां ससहस्र-वर्षाणां सहस्र णाधिकं पल्योपम
स्थितिः मुत्कृष्टमायुः । तथा ग्रह-नक्षत्र-ताराणां पल्योपमं पल्योपमाधं पल्योपमचतुर्भागश्च यथाक्रममुत्कृष्टमायुः ।
गाथा इयमत्र भावना-ग्रहाणा-भौम-युधादीनां परिपूर्ण पल्योपमम् ; नक्षत्राणाम्-अश्विन्यादीनां पल्योपमार्धम् ; तारकदेवानां च पल्योपमस्य चतुर्थो भाग उत्कृष्टमायुरिति ! तथा तेषां-चन्द्रा-ऽऽदित्य-ग्रह-नक्षत्र सारकदेवानां सम्बन्धिन्याः स्थितेरध-समप्रतिभागरूपं तेषामेव
प्र. आ. सम्बन्धिनीनो देवीनां क्रमेणोत्कृष्टमायुः । 'केवलमन्त्यदेवीद्विके-नक्षत्र तारकदेवीद्वये तदेवार्धमधिकंविशेषाधिकमत्रसेयम् , इदमुक्तं भवति-चन्द्रविमानवासिनीना देवीनां पल्योपमा पश्चाशद्वर्षसहस्राधिकम् , सूर्यदेवीना पल्योपमा पञ्चवर्षशताधिकम् , ग्रहदेवीनां च पूर्ण पल्योपमा मुत्कृष्टमायुः । तथा नक्षत्रदेवीना पन्योपमस्य चतुर्थो भागो विशेषाधिकमुत्कृष्टमायुः । तारकदेवीनां पल्योपमस्याष्टमो भागः किश्चिदधिकमुत्कृष्टमायुरिति । तथा तारकदेवदेव्योः पृथगभिधानात् शेषेवष्टसु-चन्द्रादित्यग्रहनक्षत्रदेवतद्देवीरूपेषु भेदेषु पादः-पल्योपमस्य चतुर्थो भागो जघन्यमायुः तथा तारकदेवानां तारकदेवीनां च पल्योपमस्या- ३४२।। ष्टांश: अष्टमो भाग इति ॥४१॥ ४२।।
१ केवलमन्तदेवी० रखें ॥