________________
सारोद्धार
सटीके
द्वितीयः खण्ड:
पुद्गल. परावतः गाथा १०३९. १०५२
॥२६॥
क्षेत्रपुद्गलपरावर्तः, कालपुद्गलपरास्तों भावपुद्गलपरावर्तश्च, पुनरप्येकेकः पुद्गलपरावर्तः स्थूलेतरभेदाभ्यांबादरसूक्ष्मत्वभेदेन द्विधा-बादरः सूक्ष्मश्च । स च यथा भवति तथा निशमयत-शृणुतेति ॥ ४०॥
तत्र पादरद्रव्यपुद्गलपरावर्तमाह--'ओराले' त्यादि, एकेन जन्तुना विकटा भवाटवीं पर्यटता अनन्तेषु भवेषु औदारिक वे क्रिय-तैजस-कामण-'भाषा-ऽऽन-प्राण मनोलझणपदार्थसप्तकरूपतया चतुर्दशरउज्यात्मकलोकवर्तिनः सर्वेऽपि पुद्गलाः स्पृष्टा-परिभुज्य यावता कालेन मुक्ता भवन्ति एष वादग्द्रव्यपुद्गलपरावतः। किमुक्तं भवति ?-यावता कालेनैकेन जीवेन सर्वेऽपि जगद्वर्तिनः परमाणको यथायोगमौदारिकादि सप्तकस्वभावत्वेन परिभुज्य२ परित्यक्तास्तावान कालविशेषो बादरद्रव्यपुद्गलपरावर्तः । आहारकशरीरं चोत्कृटतोऽप्येकजीवस्य वारचतुष्टयमेव सम्भवति, ततस्तस्य पुद्गलपरावर्त प्रत्यनुपयोगान्न ग्रहणं कृतमिति ॥४१॥ ___अथ मतान्तरेण द्रव्यपुद्गलपरावर्तमाह- 'अहवे' त्यादि, अथवा-अन्येषामाचार्याणां मतेनौदारिक बैंक्रिय-तैजस कार्मणशरीरचतुष्टयरूपतया निःशेषद्रव्यग्रहणे एकजीवेन सर्वलोकपुद्गलानां परि. भुज्य २ परित्यजनेऽयं बादरः-स्थूलः पुद्गलपरावर्तो भवति, किंविशिष्टः १-द्रव्यादिः, द्रव्यशब्द आदिर्यस्य प्रदलपरावतेस्य सद्रव्यादिः, द्रव्यपद्गलपरावते इत्यर्थः ॥४२॥
सूक्ष्म द्रव्यपुद्गलपरावर्तमाह--'दव्वे' इत्यादि, अथ द्रव्ये-द्रव्यविषयः सूक्ष्मः पुद्गलपरायतों भवति, यदा औदारिकादिशरीराणामेकेन-अन्यतमेन शरीरेण एको जीवः संसारे परिभ्रमन् सर्वानपि पुद्ग१ माषानपान० कि. । "माधानापात० ख०माषानपात. सि. ॥२ यथा-मुः।।
प्र. आ.
॥२६॥