________________
प्रवचनसारोद्धारे
सटीके
द्वितीयः
॥१४॥
'माधवईए' इत्यादिगाथात्रयम् , माघवत्याः-तमस्तमप्रभापराभिधानायाः सप्तमनरकपृथिव्यास्तलाद्'अलोकसंस्पर्शिनः सर्वाधस्तनभागादारभ्य ईपत्प्राग्भारायाः-सिद्ध शिलायाः सर्वोपरितनतलं लोकान्तलक्षणं यावद धोभागेन चतुर्दशरज्जूप्रमाणो लोको भवति । तस्य च लोकस्याधस्तात-सप्तमपृथिव्या अधोभागे लोक. विस्तरतो देशोनाः सप्त रज्जवः, सूत्रकारेण स्वल्पत्वाद्देशोनत्वं न विवक्षितम् । ततोऽधोलोकान्तादुपरि प्रदेश- खण्डक हानि:-तिर्यगङ्गुलासङ्ख्येयभागहानिस्तावद् ज्ञातव्या यावद् भृतले-तिर्यग्लोकमध्यवर्तिसमभूमिभागे विस्त-गाथा रत एका रज्जः । तदनु-समभूमिभागादुपरिमुखं प्रदेशवृद्धिः-तिर्यगङ्गुलासङ्ख्येयभागवृद्धिस्तावद् द्रष्टव्या यावद्धलोकमध्ये पश्चमे ब्रह्मलोकाभिधे कल्प विस्तरतः पञ्च रज्जवः । ततः पुनरप्यूर्व प्रदेशहानिस्तावदवसेया यावसिद्धशिलाया उपरिष्टाल्लोकान्ते विस्तरत एकैच रज्जूः। घायां च-रत्नप्रभापराभि- प्र. आ धानायां प्रथमपृथिव्यां योजनानामसङ्खथाताभिः कोटिभिर्वहसमभूभिभागादतिक्रान्ताभिर्लोकमध्यम् । | २६७
इयमत्र भावना-इह सामस्त्येन चतुर्दशरज्ज्वात्मको लोकः, स च त्रिधा भिद्यते । तद्यथा-ऊर्ध्वलोकस्तिर्यग्लोकोऽधोलोकश्च । तत्र तिर्यग्लोकस्य ऊर्ध्वाधोऽपेक्षया अष्टादशयोजनशतप्रमाणस्य मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुबहुमध्येऽष्टप्रादेशिको रुचकः । तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः । एष एव रुचका सर्वासां दिशां विदिशा च प्रवर्तकः, । एतस्माच्च रुचका धस्तिर्यग्लोकविभागाः । तथाहि-रुचकस्याधस्तादुपरिष्टाच्च नव नव योजनशतानि तिर्यम्लोकः, तस्य च तिर्यग्लोकस्याधस्तादधोलोकः, उपरिष्टा लोकः । देशोनसप्तरज्जूप्रमाण ऊलोका,
१ अलोकपृथिव्यासंस्पर्शिनः-जे.॥