________________
सारोद्धारे
२७६. | निर्देशः
द्वार
॥३२॥
गुडधानादीनि भुज्यन्त इति भोज्यानि-शाल्योदनादीनि २५६ इत्येकोनषष्टितमगाथायां पश्चपश्चाशदुत्तरद्विशततमादीनि एकोनपष्टयु त्तरद्विशततमान्तानि पश्च द्वाराणि ||६०॥
षट्स्थानेषु वृद्धिहानिश्च वस्तूनां विधेया २६०, तथाऽपहतु-अन्यत्र देशान्तरे नेतु देवादिभिर्यानि न शक्यन्ते २६१, तथा अन्तरद्वीषा वक्तव्याः २६२, तथा जीवाजीयानामल्पबहुत्वं २६३ च समुच्चये, इति षष्टितमगाथायां पष्टय त्तरद्विशततमादीनि त्रिपष्टय त्तद्विशततमान्तानि चत्वारि द्वाराणि ॥६१।।
सङ्ख्या युगप्रधानमूरीणां श्रीवीरजिनस्य तीथे, तथा उत्सर्पिण्यामन्तिमजिनसम्बन्धितीर्थस्याविच्छेदमानं २६४-२६५ च यमुच्चये, इत्येकषष्टितमगाथायां चतुःषष्टिपञ्चषष्टयु त्तरद्विशततमे द्वे द्वारे ॥६२||
देवानां प्रविचार:-अब्रह्मसेवा २६६, तथा स्वरूपमष्टानां कृष्णराजीनां भानीयं २६७, तथा स्वाध्यायस्याकरणं कदेति शेषः २६८, तथा नन्दीश्वराभिधानस्याष्टमद्वीपस्य सम्बन्धिन्याः स्थितेर्भणनं २६६, इति द्वापष्टितमगाथायां षट्पष्टयु त्तर्गद्वशततमादीन्येकोनसप्तप्युत्तरद्विशततमान्तानि चत्वारि द्वाराणि ||६३॥
लब्धयः-आमपौषध्यादयः २७०, तथा तपांसि-इन्द्रियजयादीनि, पुसा निर्देशः प्राकृतत्वेन २७१, तथा पातालकलशाः समुद्रमध्यवर्तिनः २७२ तथा आहारकशरीरस्वरूपं च २७३, तथा देशा अनार्याः २७४, तथा त एवाऽऽर्याः २७५, तथा सिद्धानामेकत्रिंशद्गुणाः २७६, इति त्रिषष्टितमगाथायां सप्तत्युतरद्विशततमादीनि पट्मप्तत्युत्तरद्विशततमान्तानि सप्त द्वाराणि ॥६४॥ ... समयात-सिद्धान्तात्समुद्धृतानामाशास्त्रसमाप्ति-शास्त्रसमाप्तिं यावदेषां द्वाराणां नामोत्कीर्तनपूर्वा एतद्द्वारविषया विचारणा-विवरणरूपा झेयेति ॥६॥
॥ ३२
RAMMAR
Wwwwwwww.WOHARWAR