________________
सारोद्धारे सटीके
२२
'पाशूत्करप्रचुरमतिश्चिशिरं बहुधर्मकं वा उपाश्रयं वा मृदुकठिनादिभेदेनोच्चावचं संस्तारकं वा प्राप्य न कदाचिदप्युद्विजेत् ११॥
1८६ द्वारे
परीषहाः ___तथा आक्रोशनमाक्रोशः-अनिष्टवचनम् , स एव परीषहः आक्रोशपरीषहः, तद्यदि सत्यं तहिं कः कोपः ? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति । अनृतं चेत् सुतरां कोपो न कर्तव्यः । उक्तं च
गाथा "आक्रुष्टेन मतिमता तत्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः १ स्यादनृतं किमिह कोपेन? ॥१॥" इत्यादि परिभाव्य न कोपं कुर्यात् १२ ।
६८५तमाहन वनारनं च एव परीषहो क्वपरीषहः, परहि दुरात्मकैः पाणि-पाणि-लत्ता कशादिभिः प्रद्वेषादितस्ताडनं क्रियमाणं सम्यक्महेत । न पुनः कोपकलुषितान्तःकरणो भवेत् । चिन्तयेच्च अन्यदेवेदं
प्र.आ. शरीरमात्मनः पुद्गलमंहतिरूपम् । आत्मा पुनर्ने शक्यत एव ध्वंसयितुम् , अतः स्वकृतफलमुपनतमिदं ममेति १३॥
तथा याचनं यात्रा प्रार्थनेत्यर्थः, सेव परीषदो याच्आपरीवहः । मिझोहि वसपात्रानपानप्रतिश्रयादि परत एव सर्वमपि लभ्यम् , शालीनतया च यद्यपि या कर्तुं न शक्नोति तथापि त्रपामपहाय प्रागल्भ्यभाजा सञ्जाते कार्य म्वधर्मकायपरिपालनाय याचनमवश्यं कार्यमिति १४ ।
तथा लम्भनं लाभो न लाभोऽलाभ:-अभिलषितविषयाप्रामिः स एव परीपहोऽलाभपरीपहः । याचनीयालामेऽपि१ पासू-इति पो. वि. प्रत्योः तत्वाथे. सि. वृत्ती (१९) च पाठः ।। २ यात्रा-मु.॥३ याचा मु. 1४ वाचा-मु.॥
CHANNE