________________
.
....
.".1parimantum p.mmmonsopryoneReMInteres
p
eaxomprerj
I STANTRom
प्रवचनसारोद्धारे सटीके
अवग्रह पंचक गाथा
६८४
4
'उड्ढें जाव सरो चेव चुल्लहिमवंतकुमारस्स मेराए वच्चति चउसढि जोयणाणि सुत्ताएसेण बावत्तरि'
[वृ.क.मा. ६७५, पृ. २०१ टि. ३] ति, अधस्तु गा.ऽवटादिषु । ततो भरतक्षेत्रे भरतश्चकी यतिभिरनुज्ञापयितव्यः । यद्-यस्मात्कारणात स पटखण्डमहीनाथः । उपलक्षणमेतत् ततः स्वस्वकाले सगरादयोऽप्यनुज्ञापयितव्याः । एवमैरक्तादिष्वपि निजनिजचक्रवर्तिनः २ । तथा गृहपतिः-देशस्य-मण्डलस्य नायकः-अधिपतिः, तदवग्रह-तदधिष्ठितमण्डलरूपे वद्भिः सोऽप्यनुज्ञापयितव्यः ३ । तथा मागारिकः-शय्यापतिर्वसतिस्वामीत्यर्थः तमप्यनुज्ञाप्य 'वृति-वरण्डकादिपरिक्षिप्तगृहादिरूपे तदवग्रहे स्थातव्यम् । एप च तिर्यक् विज्ञेयः । अधस्तु द्वयोरपि गृहपत्ति-सागारिकयो पी-कूप भूमिगृहादिपर्यन्तः । ऊद्धव पुनः पर्वत-पादपादिशिखरान्तोऽवग्रह इति ४ तथा समानो धर्मः सधर्मस्तेन चरतीति सार्मिकः मूरिः-आचार्यः, उपलक्षणत्वादुपाध्यायादिश्च । ततः स आचार्यादिर्यस्मिन् पुरे-नगरे विहितवर्षाकालः-कृतचतुर्मासकस्तनगर गव्य॒तपञ्चकादर्वाक् तस्याचार्यादेः प्रतिबद्धं तदवग्रह इत्यर्थः । अयं च क्षेत्रतः, कालतस्तु वर्षाकालानन्तरमपि द्वौ मासो, एते पञ्च अवग्रहाः। अतः पञ्चभिरेतै दें वेन्द्रादिभिरननुज्ञाते अवग्रहे यतीनां सदा-सर्वकालं न कल्पते स्थातुम्-अवस्थानम् कतुमिति, अत्र चोत्तरोत्तरेणावग्रहेण पूर्वः पूर्वो बाधितो बोद्धव्यः, यथा राजावग्रहेण देवेन्द्रावग्रहो बाधितः, तथाहि-राजावग्रहे राज एव प्राधान्यम् , न देवेन्द्रस्य, ततस्तत्र राजैवानुज्ञापयितव्यो न तु देवेन्द्र इति । एवं सजावग्रहमपि गृहपत्यवग्रहो बाधते, तमपि सागारिकावग्रहः, तमपि साधर्मिकावग्रह इति ॥६८२-६८४॥८॥
१ वृत्तिवरण्ड मु.॥