________________
-- प्रवचन
सारोद्धारे सटीके
६७ द्वारेकरणसमतो. कोटिनवक गाथा
॥४५॥
प्र.आ.
एवं कारणा-ऽनुमतिभ्यामपि । तथा नान्येन पातयति, न क्रापयति, न च पाचयति, तथा नापरेण हन्यमानं न क्रीयमाणं न च पच्यमानमनुमोदते । मिलिताश्चैता नव कोटयः । एतैर्नवमिः पदैः पिण्डविशुद्धिःसर्चाऽपि सगृह्यत इति भावः ॥५६९॥
इह च पूर्व षोडशविध उद्गम उक्तः, स च सामान्यतो द्विधा भवति, तद्यथा-विशोधिकोटिरूपोऽविशोधिकोटिरूपश्च, तत्र यद्दोषदुष्टे भक्ते तावन्मात्रेऽपनीते सति शेष कल्पते, स दोषो विशोधिकोटिः, शेषस्त्वविशोधिकोटिः, तत्र ये दोषा अपिशोधिकोटिया ये न विशोषिकोटिरूपतानाह
कम्मुद्देसिय'चरिमे तिय पूडयमीसचरिमपाहुडिया ।
अझोयर अविसोही विसोहिकोडी भवे सेसा ॥५७०॥ 'कम्मुरेसियगाहा' सूचामात्रत्वात्सूत्रस्य 'कम्म'त्ति आधाकर्म सप्रमेदम् , औद्देशिकस्य विभागौद्देशिकस्य चरमत्रिक-कमभेदसत्कमन्त्यमेव भेदत्रयम् , पूतिर्भक्तपानरूपा, 'मोस' ति मिश्रजातं पाखण्डिगृहिमिश्रं साधुग्रहिमिश्रम , चरमा-अन्त्या बादरेत्यर्थः प्राभृतिका, 'अज्झोयर'त्ति अध्यवपूरकस्य स्वगृहि पाखण्डिमिश्र-स्वगृहिसाधुमिश्ररूपमन्त्य भेदद्वयम् , एते उद्गमदोषा अविशोधिकोटिः, अस्याश्चाविशोधिकोटथा अवयवेन शुष्कसिक्थादिना तथा तक्रादिना लेपेन, बल्लचणकादिना च अलेपेन संसृष्टं यत् शुद्धं भक्तं तस्मिन्नुज्झितेऽपि यदकृतकल्पवये पात्र शुद्धमपि भक्तं पश्चात्परिगृयते तत्पूतिरवगन्तव्यम् । विसोहिकोडी भवे 'सेस'त्ति शेषाः-ओघौद्देशिक नवविधमपि च विभागौद्देशिकमुपकरणपूतिर्मिश्रस्याद्यो भेदः, स्थापना,
१ चरमतिय पूइयंता. ।। २ सेसत्ति शेवे विभागौ० सं.॥
॥४५॥
SHIRSANAG
r
owondomadhutatmathiyahimne
......
.