________________
प्रवचनसारोद्धारे
सटीके
॥४३९॥
६७
१० एष
भवति, ततो देयमपि वस्तु लालया खरण्टितं भवतीति तद्ग्रहणे लोके जुगुप्सा । तथा कम्पमानहस्तञ्च भवति, aat पनवशाद्देयं वस्तु भूमौ निपतति तथा च षट्जीवनिकायविराधना तथा स्वयं वा स्थविरो ददत् निपतेत्, तथा सति तस्य पीडा भ्रम्याश्रितषड्जीवनिकायविराधना च १ । अपि च- प्रायः स्थविरो गृहस्याप्रभुर्भवति, ततस्तेन दीयमाने कोऽधिकारोऽस्य वृद्धस्य दाने इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्य दोषाः प्रद्वेषः स्यात्, " तथा वृद्धोऽपि यदि प्रभुर्भवति कम्पमानश्च यद्यन्येन विधृतो वर्तते स्वरूपेण वा दृढशरीरो भवति तर्हि ततः कल्पते २ |
गाथा
५६८
प्र.अ. १५१
तथा नपुंसकादभीक्ष्णं भिक्षाग्रहणे अतिपरिचयात्तस्य नपुंसकस्य साधोर्वा वेदोदयो भवेत्, ततो नपुंसकस्य साध्वालिङ्गनाद्यासेवनेन द्वयस्यापि कर्मबन्धः, तथा अहो एते नपुंसकादपि निकृष्टात् गृह्णन्तीति जननिन्दा भवेत्, अपवादतस्तु वर्धितक चिप्पित- ' मन्त्रोपहत ऋषिशत- देवशप्तादिषु केषुचिदप्रतिसेविषु agah ददत् गृह्यतेsपि भिक्षेति ३ । तथा "कम्पमानकायोऽपि भिक्षादानसमये देयमानयन् भूमौ परिशाटयेत् तथा साधुभाजनाद्वहिभैिक्षां क्षिपेत् देयमात्रकं वा पातनेन स्फोटयेदिति सोऽपि च यदि भिक्षाभाजनग्राही भवेत् पुत्रादिभिर्वा दृढहस्तो भिक्षां दाप्यते तदा ततोऽपि गृह्यते ४ ।
१ द्रष्टव्या-पिण्डविशुद्धिवृतिः प ८८ । सर्वेषामपवादानां तुलना-पिण्डनि वृत्तिः ५९७ तः ॥ २ तुलना-पिण्डनिर्युक्तिवृत्तिः ५८५ ॥ ३ 'साधुलिङ्गाद्यासेवनेन ' इति पिण्डनिवृत्तौ (५८५) पाठः ॥ ४ तुलना-पिण्डविशुद्धिवृत्तिः पृ. ८ ॥ ५०मन्त्रोपहतोपयुपहतऋषिः इति पिण्डवि, वृत्तिः प प ६ कम्पमानकाय ज्वरिताऽन्धानां तुलनापिण्डनियुक्तिवृत्तिः ५२-५६३ ।।
||४३९