SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ६७द्वा १६उद्ग दोषाः गाथा ॥४०९ ऽपि दात्रा फलं झगित्येवंविधं प्राप्तमित्येवं लोके उपहासः । तथा प्रथमतः कुतुपादिमुखे साध्वर्थमुद्घाटिते सति पुत्रादिभ्यो घृतादिप्रदाने तथा क्रये विक्रये च पापप्रवृत्तिः । तस्मिन् कुतुपादिमुखे पिधातु विस्मृते मूषकादयो जीवा निपत्य विनश्यन्तीति । ___कपाटोद्भिन्नेऽप्येत एव दोषाः, तथाहि-यदा कपाटात्प्राक्कथमपि पृथिवीकायो जलभृतः करवको वा बीजपूरकादिकं वा मुक्तं भवति तदा तस्मिन्नुद्घाटश्यमाने कपाटे तद्विराधना भवति । जलभृते च करवकादो लुठयमाने भिद्यमाने वा पानीयं प्रसन् प्रत्यासनचुल्ल्यादावपि प्रविशेत् , तथा च सत्यग्निविराधना, यत्राग्निस्तत्र वायुरिति वायुविराधना च, मूषिकादिविवरप्रविष्टकीटिका-गृहगोधिकादिसत्त्वविनाशे प्रसकायविराधना च, तथैव च दान-क्रय-विक्रयेभ्योऽधिकरणप्रवृत्तिरिति, ततो द्विविधमप्युद्भिन्न न ग्राह्यम् । ___ यदा तु कुतुपादीनां मुखबन्धः प्रतिदिवसं बध्यते छोटथते च, तत्रापि यदि जतुमुद्राव्यतिरेकेण केवलवस्त्रमात्रग्रन्थिीयते, नापि च सचित्तपृथिवीकायादिलेपस्तदा तस्मिन् साध्वर्थमुद्भिन्नेऽपि यद्दीयते तत्साधुभिगद्यते । तथा कपाटोद्भिन्नेऽपि यत्र प्रतिदिनमुद्घाटयते कपाटमुल्लालकश्च भृमिघर्षकस्तथाविधो न भवति, तत्रोद्घाटितेऽपि कपाटादावपवरकादिस्थितमशनादिकं कल्पते एवेति १२ । 'मालोहडे य'त्ति मालात्-सिक्ककादेरपहतं-साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतम् । तच.. ५६३ १ तुलना-पिण्डनि, वृप्तिः प.३५ B|| २"मालोहडंपि दुवि जहन्नमुक्कोसगं च बोद्धवं । अम्गतले जना तविवरीयं तु उक्कोसं पिंडनि. ३५७ | व्याख्या-मालापहृतं द्विविधम , तद्यथा जघन्यमुत्कृष्टं च, तत्र यदुभन्यस्ताभ्यां पादयोरप्रमागाभ्यां फलकसंज्ञाभ्यां पाणिभ्यां चोत्पाटिताभ्यामूर्ध्वविलगितोच्चसिककाविस्थितं ।
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy