________________
प्रवचन
सारोद्धार
सटीके
॥३७९ ।।
सुखेनानुवर्तयति १५-१६-१७, आसना - तत्क्षणादेव लब्धा कर्मक्षयोपशमेनाविता प्रतिभा-परितीर्थिकादीनामुतरप्रदानशक्तिर्यस्य स आसनलब्धप्रतिभः १८, नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति, तत्तद्देशजांच जनान् तत्तद्भापयाधर्ममार्गेऽवतारयति १९, पश्चविध आचारो-ज्ञानाचारादिरूपस्तस्मिन् 'युक्तः' उद्युक्तः स्वयमाचारे 'ध्वनवस्थितस्यान्यानाचारेषु प्रवर्तयितुमशक्यत्वात् २४, सूत्रार्थग्रहणेन चतुर्भङ्गी सूचिता, एकस्य सूत्रं नार्थः, द्विती-यस्यार्थो न मूत्रम्, तृतीयस्य सूत्रमप्यर्थोऽपि चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणम्, ततः सूत्राऽर्थतदुभयविधीन् जानातीति सूत्रा ऽर्थतदुभयविधिज्ञः २५, आहरणं दृष्टान्तः, 'हेतुद्विविधः - कारको ज्ञापकश्च तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यअकः प्रदीपः, उपनयः - उपसंहारो दृष्टान्तदृष्टस्यार्थस्य प्रकृते योजनमिति भावः, 'कारण' ति पाठे तु कारण- निमित्तम्, नया - नैगमादयः एतेषु निपुणः आहरण हेतूपनय नयनिपुणः, स हि श्रोतारमपेक्ष्य: तत्प्रतिपच्यनुरोधतः कचिद् दृष्टान्तोपन्यासं क्वचिद्धेतूपन्यासं करोति २६-२७, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति २८, नयनिपुणतया स सम्यगधिकृतन यवक्तव्यताऽवसरे सम्यक् सप्रपञ्चवैविवक्त्येन नानभिधत्ते २६, 'ग्राहणा कुशलः ' - प्रतिपादनशक्तियुक्तः ३०, स्वसमयं परसमयं च वेतीति स्वसमयपरसमयवत् स हि परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वाहयति ३१-३२, 'गम्भीरः 'अतुच्छस्वभावः १ ष्ववस्थितस्याज्ञानाच्चारेषु-सं. ॥। २ " हेतुश्चतुर्विधो यापकादिः, यथा दशवेकालिकनियुक्तौ [११ ८६]" इत्यधिकं बृहत्कल्पटीकायाम् पू. ७५ ॥ ३ ससमयं -जे, ॥
६४ द्वारे सूरिगुणाः
गाथा
५४०
४८
प्र. आ. १३२
॥३७९॥