________________
प्रवचनसारोद्धारे सटीके
-
॥३७०11
५४८
आयाराई अह उ तह व प बसविहो य ठियकप्पो । बारस तव छावरसग सूरिगुणा हुति छत्तीसं (३) ॥५४८॥.....
[तुलना-सम्बोध प्रकरण ३१९९-१००]
परिगुण।
गाथा "अट्ठविहे'त्यादिगाथानवकम् , गुणानां साधूनां वा गण:-समुदायो भूयानतिशयवान् वा यस्यास्ति स गणी-आचार्यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत् , सा आचारादिभेदादष्टविधा, केवलमेकैकस्याश्चतुर्भेदत्वेन चतुर्मिगुणने द्वात्रिंशभेदाः, विनयश्रतुर्भेदस्तत्र प्रक्षिप्यते, तत एते गुरोः
प्र.आ. आचार्यस्य पत्रिंशद् गुणा भवन्ति ॥ ५४० ॥
१२९ तत्रादौ सम्पद इमाः-'आयारे'त्यादि, आचारश्च श्रुतं च शरीरं चेत्येकवद्भावादाचार-श्रतशरीरम् , तथा पचनम् , प्राकृतत्वादेकारः, वाचना, मतिः, प्रयोगमतिः, एतेषु विषये सम्पत् , तथाहिआचारसम्पत् १, श्रुतसम्पत् २, शरीरसम्पत् ३, वचनसम्पत् ४, वाचनासम्पत् ५, मतिसम्पत् ६, प्रयोगमतिसम्पत् ७, अष्टमी च संग्रहपरिबासम्पत् ८ | तत्र आचरणमाचार:-अनुष्ठानं तद्विषया स एव वा सम्पद्-विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिराचारसम्पत् , एवमग्रेऽपि व्युत्पत्त्यर्थो भावनीयः॥५४१॥
सा चतुर्धा,यथा-'चरणयुतो मदरहितोऽनियतवृत्तिरचञ्चलश्चेति',तत्र चरणं-चारित्रं व्रत-श्रमणधर्मेत्यादिः सप्ततिस्थानस्वरूपं तेन युतो-यूक्तश्चरणयुतः, 'अन्यत्र तु 'संयमध्रुवयोगयुक्तते' त्येवमिदं पठ्यते, तत्राप्यः ॥३७०॥ १ 'भट्टविहा गाहा'-सं. ॥ २ तुलना- "संयमधु वयोगयुक्तता-चरणे नित्यं समाध्युपयुक्ततेत्यर्थः ।" इति धर्मरत्नः ।। प्रकरणदे.टीका गाथा १२६, पृ.२१०॥
REAR
:
COEHNA