SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ प्रवचनसारोद्धारे सटीके ॥३१॥ भेदा: प्र.आ. 'ते य पन्नरसभेएहिं ति द्वारमिदानीमेकोनपश्चाशं विवरीतुमाह ४९ द्वारे तित्थयर १ अतिस्थयरा २ तित्थ ३ सलिंग ४ ऽन्नलिंग ५ थी ६ पुरिसा ७। सिद्धगिहिलिंग ८ 'नपुंसक ९ अतित्यसिद्ध १० पत्तेयबुद्धा ११ य ॥४७३।। एग १२ अणेग १३ सयंबुद्ध १४ बुद्धबोहिय १५ पभेयओ भणिया । गाथा सिद्धते सिद्धाणं भेया पन्नरससंखत्ति ॥४७४॥ ४७३'तिस्थयरे'त्यादिगाथाद्वयम् , तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरमिद्धाः १, तथा अतीर्थकरा:- ४७४ सामन्यकेवलिनः सन्तो ये सिद्धास्तेऽतीर्थकरसिद्धाः २, तथा तीर्यते 'संसारसागरोऽनेनेति तीर्थ-यथावस्थितजीवा-ऽजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं तच निराधारं न भवतीति सङ्घः प्रथमगणधरो वा वेदितव्यः, तस्मिन्नुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः ३, तथा स्वलिङ्ग-जोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः ४, तथा अन्यलिङ्गे-परिव्राजकादिसम्बन्धिनि वल्कलकपायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्ते अन्यलिङ्गसिद्धाः, यदा अन्यलिङ्गिनामपि भावतः सम्यक्त्वादिप्रतिपन्नाना केवलज्ञानमुत्पद्यते तत्समयं च कालं कुर्वन्ति तदेदं द्रष्टव्यम् , अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ततः साधुलिङ्गमेव प्रतिपद्यन्ते ५, तथा लिया लिङ्ग स्त्रीलिङ्ग स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्चत्रिधा-वेदः शरीरनिवृत्तिर्नेपथ्यं च, तत्रेह शरीरनिर्धच्या प्रयोजनं न वेद-नेपथ्याभ्याम् , वेदे सति सिद्धथ ॥३१ ॥ भावात् , नेपथ्यस्य चाप्रमाणत्वात् , तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गासिद्धाः ६, | १ नपुस अतिस्था-जे ॥२ तथा च सलिगे- ॥
SR No.090382
Book TitlePravachansaroddhar Part 1
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages678
LanguageSanskrit
ClassificationBook_Devnagari, Religion, & Sermon
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy