________________
प्रवचन
सारोद्वारे
सटीके
॥३००||
नखाः- पाणिपादजाः २६, तथा इन्द्रियार्था - विषयाः पञ्चापि स्पर्श-रस- रूपगन्ध-शब्दस्वरूपा अमनोज्ञानामभावेन मनोज्ञानां च प्रादुर्भावेन मनोरमा- मनः प्रीणका भवन्ति २७ तथा षडपि ऋतवो वसन्तायाः शरीराप्यायक सुखस्पर्शादिसम्पादकत्वेन सर्वदाविका शिकुसुमादिसमृद्धया च मनोरमा अनुकूलाः सम्पद्यन्ते २८, तथा यत्र भगवस्तिष्ठति तत्र पशुप्रसरप्रशमनार्थं गन्धोदकवृष्टिर्घनघन सारादिमिश्रमनोहारिवृष्टिः २९, तथा वृष्टिः कुसुमाना- मन्दार- पारिजातक- चम्पकादीनां पञ्चवर्णानां श्वेत रक्त पीत-नील कालानाम् ३०, तथा शकुनाः पक्षिणो ददति प्रदक्षिणाम्, यत्र भगवान् सश्चरति तत्र चाप-शिखण्डिप्रभृतयः पक्षिणः प्रदक्षिणगतयो भवन्तीत्यर्थः ३१, तथा पवनः संवर्तकवातो योजनं यावत्क्षेत्रशुद्धिविधायकत्वेन सुरभि शीतलमन्दत्वेन च अनुकूलः - सुखदो भवति, यदुक्तं समवायाङ्गे - "सीयलेणं सुहफा सेणं सुरभिणा मारु - एण जtयणपरिमंडलं सव्यओ समता संपमज्जिज्जइ" [. ३४ ] ति, ३२ तथा यत्र भगवान् व्रजति तत्र द्रुमाः- पादपाः प्रणमन्ति नम्रा भवन्ति ३३, तथा यत्र भगवान सलीलं सुचरति तत्र वाद्यन्ते दुन्दुभयोमहत्यो ढक्काः सजलजलधरवद्गम्भीरभुवनव्यापिघोषाः ३४ । इति सर्वजिनेन्द्रातिशयानां चतुस्त्रिंशत् चतुर्णामेकादशानामेकोनविंशतेश्व "मीलने भवन्तीति । इह च यत्समवायाङ्ग ेन सह किञ्चिदन्यथात्वमपि
१ यावते क्षेत्र० सं. ॥ शीतलेन सुरमिना सुखम्पर्शन भारतेन योजनपरिमण्डलं सर्वतः समन्तात् संप्रमायते ॥ २ सुरहिणा- मु. ॥ ३ पव्रजति-सं. ॥ ४ चत्वारोऽतिशयाश्वान्ये, तेषां विश्वोपकारिणाम् पूजा-कान बचो ऽपाया पगमाख्या महाभूताः ॥ अष्टकं प्रतिहार्याणां चत्वारोऽतिशया इमे । इत्येवं द्वादशगुणा भर्हतां परिकीर्तिताः" इति लो. प्र. (३० । ९९७-९९८) ।। ४ मीनेन म० मु० ॥
11
४० द्वारे
अतिशय
चतुस्त्रि
शत्
गाथा
४४१
४५०
प्र.आ.
१०६
||३००/