________________
प्रवचन
सारोद्वारे सटीके
॥२२९॥
महासेनः क्षत्रियो राजा, सुविधिस्वामिनः सुग्रीवः, शीतलस्य दृढरथः, श्रेयांसस्य विष्णुः, वासुपूज्यस्य सुपूज्यः क्षत्रियः, विमलम्य कृतवर्मा, अनन्तजिनस्य सिंहसेनः, धर्मनाथस्य भातुः शांतिनाथस्य विश्वसेनः कुन्थुनाथस्य शूरः अरस्वामिनः सुदर्शन: मल्लिजिनस्य कुम्भः मुनिसुव्रतस्य सुमित्रः, नमिनाथस्य विजयः, अरिष्टनेमेः समुद्रविजयः पार्श्वनाथस्य राजा अश्वसेनः वर्धमानस्वामिन सिद्धार्थः क्षत्रिय इति ।। ३२२ - ३२४॥
इदानीं 'जिणजणणी-जणयगई' सि द्वादशं द्वारमाह
अहं जणणीओ तित्थयराणं तु हृति सिद्धाओ । अट्ट य सकुमारे माहिंदे अड्ड बोडव्या ॥३२५॥ नागे उसहपिया सेसाणं सन्त हुति ईसाने । य सर्णकुमारे माहिंदे अड घोडव्वा ।।३२६ ।। 'अह' मित्यादि गाथाद्वयम् अष्टानां तीर्थकृतामृषभादीनां चन्द्रप्रभान्तानां जनन्यो- मातरो भवन्ति सिद्धा तदनु सुविध्यादीनां शान्ति नाथयन्तानामष्टौ जनन्यः सनत्कुमारे- तृतीय देवलोके गताः, तथा कुप्रभृतीनां श्रीमहावीरान्तानामष्टौ जनन्यो माहेन्द्रे - चतुर्थदेवलोके गता बोद्धव्या इति ॥ ३२५ ॥
अड
तथा नागेषु - नागकुमारेषु भवनपतिद्वितीयनिकायवर्तिषु सुरेषु श्री ऋषभनाथपिता - नाभिनामा गत इति शेष:, तथा शेषाणामजितनाथ प्रभृतीनां चन्द्रप्रभान्तानां सप्त पितरो भवन्ति गता ईशाने - द्वितीयदेवलोके ।
१२ द्वारे
जिन
जननी
जनकगति
गाथा
३२५
३२६
प्र.आ.८५
॥२२९॥