________________
१०
प्रवचनसारोद्धारे सटीके
२० कानि गाथा
॥२२६॥
३१३
३१९
प्र.आ.
आगमबहुमाणो चिय तित्थरस पभावणं जहासत्ती।
एएहिं कारणेहिं तित्थयरत्तं समजिणइ ॥३१९॥ ‘संघोपवयणमित्यादिगाथासप्तकम् , व्याख्यातार्थ चैतत् , नवरं स्थविर बहुश्रुतयोर्गाथानुलोम्याद्वथतिक्रमनिर्देशः, तथा तृतीयगाथायां भक्तिः-आन्तरो बहुमानविशेषः, पूजा-यथाचित्येन पुष्प-फलाऽऽहार-वस्त्रादिभिरुपचारः, वर्णम्य श्लाघायाः प्रकटनं- प्रकाशनम् , बर्जेनं परिहरण मवर्णवादस्य-अश्लाघायाः, आशातनाया-वक्ष्यमाणायाः परिहारो-वर्जनम् , एतदहंदादीनां सप्तानां वात्सल्यं-वत्सलता । तथा षष्ठगाथायां वैयावृत्य-भक्त-दानादिक्रियाद्वारेण गुर्वादीनां समाधिजननं तत् पुनदंशधा पूर्वोक्तप्रकारेण, यद्वा शील-बताभ्यामेकमेच कारणं कृत्वा समाधिरिति विभिन्नमेव तीर्थकरगोत्रबधस्थानं विवक्ष्यते, ततो वैयावृत्यं दशधा गुर्वादीनो तथा तेषामेव क्रियाद्वारेण समाधिजननं-कार्य-करणद्वारेण स्वस्थतापादनमिति । तथा ऋषभनाथेन वर्धमानस्वामिना च पूर्वभवे एतान्यनन्तरोक्तानि सर्वाण्यपि स्थानान्यासेवितानि, मध्यमेधु पुनर्राजतस्वामिप्रभृतिषु द्वाविंशतितीर्थकरेषु केनायकम् , केनापि द्वे, केनापि त्रीणि, यावत् केनापि सर्वाण्यपि स्थानानि स्पृष्टानीति । एतच्च तीर्थकरनामकर्म मनुष्यगतायेव वर्तमानः पुरुषः, स्त्री, नपुसको वा तीर्थकर भवात् पाएतस्तृतीयभवं प्राप्य बद्धमारभते ।
आह-तीर्थकरनामकर्मणो जघन्यत उत्कर्ष तश्च बन्धस्थितिरन्तःसागरोपमकोटाकोटीप्रमाणा ततः कथमुक्तं तीर्थकरभवात्प्राक् तृतीयभवे बद्धयत इति, नैष दोषः, द्विविधो हि बन्धो-निकाचनारूपोऽनिकाच
॥२२