________________
प्रवचनसारोद्धारे सटीके
तृतीयगाथायां त्रीणि, तब प्रथमगाथाव्याख्या- 'अशोकाद्यष्टमहापानिहार्यादिरूपां पूजामहन्तीत्यहन्त:तीर्थकराः १, अपगतमकलकर्माशाः परमसुखिन एकान्तकृतकृत्याः सिद्धाः २, प्रवचन-द्वादशाङ्ग तदुपयो- १० द्वारे गानन्यत्वात्सयो चा प्रवचनम् ३, गृणन्ति यथावस्थितं शास्त्रार्थमिति गुरवो-धर्मोपदेशादिदातारः ४, २० स्थानस्थविरा जाति-श्रुत-पर्यायभेदभिन्नाः, तत्र जातिविराः पष्टिवर्षप्रमाणाः, श्रुतस्थविराः समवायाङ्गधारिणः, कानि पर्यायस्थविरा विंशतिवर्षव्रतपर्यायाः ५, बहु-प्रभूतं श्रुतं येषां ते बहुश्रुताः, तच्च बहुश्रुतत्वमापेक्षिकं प्रतिपत्त | गाथा व्यम् , श्रुतं च त्रिधा-सूत्रतोऽर्थत उभयतश्च, तत्र सूत्रधरेभ्योऽर्थधराः प्रधानाः तेभ्योऽप्युभयधराः प्रधाना इति , विचित्रमनशनादिभेदभिन्नं तपो विद्यते येषां ते तपस्विनः-मामान्यसाधवः ७, अर्हन्तश्च सिद्धाश्च प्रवचनं च गुरवश्व स्थविराश्च बहुश्रुताश्च तपस्विनश्च अईन्सिद्ध-प्रवचन-गुरु-स्थविर-बहुश्रुत-तपस्विनः, सूत्रे प्र.आ.८२ च 'बहुम्सुए' इत्यत्र एकारः प्राकृतत्वादलाक्षणिकः, तेषु, 'एसिति प्राकृतत्वात्सप्तम्यर्थे षष्ठी, तत एतेषु मनस स्थानेष वत्सलभावो वत्सलता-अनुरागः यथावस्थितगणोत्कीतनं तदनुरुपोपचारलक्षणा तीर्थकग्नाकर्म बन्धकारणमिति शेषः, तथा अभीक्ष्णम्-अनवरतं ज्ञानोपयोगो-जाने व्याप्रियमाणता, इदमष्टमं कारणम् । अथ द्वितीयगाथाव्याख्या- दर्शन-सम्यक्त्वं विनयो-ज्ञानादिविनयः, स च प्रागेवोक्तो वक्ष्यमाणो वा, दर्शनं च विनयश्च दर्शन-विनयं समाहारद्वन्द्वः तस्मिन 8-१०, आवश्यकम्-अवश्यकर्तव्यं प्रतिक्रमणादि तस्मिन् ११, शीलानि च व्रतानि च शील-व्रतम् , अत्रापि समाहारद्वन्द्वः तस्मिन् , तत्र शीलानि-उत्तरगुणाः,
॥२२३॥ १ तुलना- मावश्यकसूत्रस्व हारिमद्री वृत्तिः (पृ.११६) ॥
-
FE
.
.