________________
२ वन्दन
प्रवचनसारोद्धारे
कद्वारे
॥८२॥
सेवकपालकावुदाहरणे
इदानीं सेवकोदाहरणं, तथाहिएकस्य भूमिपालस्य, सेवको द्वौ बभूवतुः । आसम्भग्रामयोः सीमाविवादश्च तयोरभृत् ।।१।। विवादमपनेतु च, गच्छद्भयां नृपसनिधी । ताभ्यो सम्मुखमागच्छन , मुनिर्मागें व्यलोक्यत ॥२॥ साधुदर्शनतः सिद्धिधं वेत्येकोऽवदत्तयोः । भक्त्या प्रदक्षिणीकृत्य, प्रणिपत्य च तं ययौ ॥३.! उद्धाटकं द्वितीयोऽपि, तदीयं विदधत्ततः तं तथैव नमस्कत्य. तदेवोदीर्य चाबजत ||४|| विवादे कथिते ताभ्यां, मध्यायः प्रणतो ययौ। महीभुजा जयो दत्तोऽपरम्य तु पराजयः ।।५।। अत्र च प्रथमस्य भावतः पूजाकम, द्वितीयस्य च द्रब्यत इति ।
इदानीं विनयकर्मणि पालकोदाहरणं, तथाहिद्वारवत्यामभूत्पुर्या, वासुदेवो महीपतिः । तस्य पालकशाम्बाधा, बभुवुर्बहवः सुताः ।।१॥ अन्येद्युगगते तत्र, श्रीमन्नेमिजिनेश्वरे । वासुदेवो जगादेत्थं, कुमारानिखिलानपि ॥२॥ यः कल्ये वन्दते पूर्व, स्वामिनः पादपङ्कजम् । यद्याचते स तत्तस्मै, ददाम्यखिलमप्यहम् ॥३॥ ततश्च-स्वमन्दिरस्थितेनैव, शाम्बेन शयनीयतः । प्रातरुत्थाय सद्भक्त्या, नेमिप्रभुरवन्धत ||४|| दुष्टबुद्धिरभव्यश्व, राज्यलोभेन सत्वरम् । पालकोऽप्यश्वरत्नेन, गत्वा प्रभूनवन्दत ॥५॥ कृष्णोऽपि तत्र गत्वाऽथ, प्रभु नत्वा च पृष्टवान् । शाम्पपालकयोः केन, यूयमद्य नताः पुरा ? ॥६॥ ततः प्रभुरपि प्राह, कृष्ण ! शाम्वेन भावतः । वयं नमस्कृताः पूर्व, द्रव्यतः पालकेन तु ॥७॥ केशवोऽपि प्रसादेन, वाजिरत्नं वितीर्णवान् । स्फुरद्गुणकदम्बाय, शाम्नाय विशदात्मने ॥८॥ अत्र च पालकस्य द्रव्यतो विनयकर्म शाम्बस्य तु भावत इति ।
जना
sindisaniladkisaadish