________________
प्रवचनसारोद्वारे
२ बन्दन कद्वारे ५ अधिकारिणः
॥६३॥
त्वां क्षमयामीत्यर्थः, एवं वचनानि-आलापकाः षट् वन्दनाईस्य-वन्दनकयोग्यस्य भवन्तीति ॥ १०१॥ ___अथ 'अहिगारिणो य पंच उ'त्ति द्वारं, तत्राह-- आयरिय उचज्झाए पवत्ति धेरै तहेव रायणिए । एएसि किडकम्म काय निजरवाए ॥१०॥
आयरिये' न्यादि; अधिकारियो वन्दनकाय योग्याः पञ्च-आचार्य उपाध्यायः प्रवर्तकः स्थविरम्तथैव रत्नाधिका, एतेषां पानां कृतिकर्म-चन्दनकं कर्तव्यं निजेरार्थ, तत्राऽऽचर्यते-सेव्यते कल्याणकामैरित्याचार्य:-सूत्रार्थोभयवेत्ता प्रशस्तसमस्तलक्षणलक्षितक्षेत्रो गाम्भीर्यस्थैर्यधैर्यादिगुणगणमणिभूषितश्च, उपसमीपे समागन्याधीयते-पठ्यते यस्मादसावुपाध्यायः, तथा चैतत्स्वरूपम् - "सम्मत्तनाणसंजमजुत्तो सुत्तस्थतदुभयविहिन्न । आयरियठाणजोगो सुत्तं वाएउवज्झाओ ॥१॥" इति ।। [सम्यक्त्वज्ञानसंयमयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥१॥]
यथोचितं प्रशस्तयोगेषु साधून प्रवर्तयतीति प्रवर्तकः, यदुक्तम्-'तवसंजमजोगेसु जो जोगो तत्थ तं पवत्तेइ । असहं च नियत्तेइ गणतत्तिल्लो पवत्तीओ ॥१॥" [तपःसंयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति । अपमर्थ च निवर्तयति गणतप्तिपरः प्रवर्तकः ॥ १॥]
तथा सीदतः साधून ज्ञानादिषु ऐहिकामुष्मिकापायदर्शनतः स्थिरीकरोतीति स्थविरः, उक्तं च"थिरकरणा पुण धेरो पवत्तिवावारिएसु अन्थेसु। जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥१॥"
॥६३ ।।