________________
चतुर्थपादः
* संस्कृत-हिन्दो-टोका-द्वयोपेतम् * त्वादिः । विकृत-सत्त्वादीनां तुल्यरूपेण प्रवस्थानात् नपुसकत्वम् । सत्त्वस्याऽधिक्ये पुस्त्वम् । सत्त्वस्य अल्पस्वे, रजसश्च प्राधिक्ये स्त्रीत्वम् । सर्वेषां त्रिगुणात्मक-प्रकृतिकार्यतया शब्दानामपि तथास्वेन गुण-गत-विशेषात् शब्देषु लिङ्गविशेष इति कल्प्यते । सोऽपि च पुस्त्वादिभेदेन त्रिविधो भवति । अपभ्रंश-भाषायां लिङ्ग-सम्बन्धि यद विधि-विधानं भवति, तत् प्रतिपादयत्याचार्यः । यथा--
१११६-लिङ्गमतन्त्रम् । अतन्त्रं व्यभिचारि प्रायो भवति । अत्र अतन्त्रपदस्य पर्यायवाचिपद व्यभिचारि इति वर्तते । व्यभिचारि-अनियतमित्यर्थः । संस्कृतभाषायां यथा रामादिशब्दाः नियत स्वेन पुल्लिङ्गाः, रमादिशब्दाः स्त्रीलिङ्गाः, तथा ज्ञानादिशब्दाश्च नपुसकलिङ्गाः वर्तन्ते, अपभ्रंश-भाषायां सासुसी स्थिति जगे, मत्रपदा निज-गत-नियतत्वं प्रायो न विद्यते। यथा-बाना - म्मान वारयन्तम् = गय-कुम्भई दारन्तु, प्रक्रिया १०१६ सूत्रे ज्ञेया । कुम्भशब्दः पुल्लिङ्गः, किन्त्वपभ्रंशभाषायां तस्य क्लीबत्व जातम् । तदेवाऽत्र १०२४ सूत्रेण जसः स्थाने इत्यादेशो जातः।
___ अभ्राणि लग्नानि पर्वतेषु पथिकः रटन याति ।
यः एष गिरि-गिलन-मनाः स कि न्याया घणायते ? ॥१॥ भावार्थ:---अभ्राणि-मेघाः पर्वतेषु-महीधरेषु लग्नानि एतद् दृष्ट्वा पथिक:-पान्यः स्टन्-शब्दायमानो याति-गच्छति । प्राचार्यः उत्तरार्धन शब्द करण-कारणमाह-एष यो मेघः गिरिगिलन-मना, गिरेःपर्वतस्य गिलनं-प्रसन भक्षणं वा तस्मिन् मनो यस्य, सः, एतादृशः स कि वितर्के पन्यायाः नायिकाया: घनायते । अत्र द्वितीयाऽर्थे षष्ठी, धन्या कथमनुकम्प्यते ? नाऽनुकम्पिच्यते, धन्याया गिलनमवश्यमेव करिष्यति, तां कामविह्वला विधाय निःसन्देहं मारयिष्यतीति भावः।
___ अभ्राणि । अभ्र + जस् । प्रस्तुतेन [ १११६] सूत्रेण नपुंसकलिङ्गोऽभ्रशब्दः पुल्लिते प्रयुज्यते, १०६९ सू० रेफलोपे, ३६० सू० भकारद्वित्वे, ३६१ सू० पूर्वभकारस्य बकारे, १००१ सू० अकारस्य पाकारे,१०१५ सू० जसो लोपे अभा इति भवति । नपुस्कस्वाभावेनाऽत्र १०२४ सूत्रथ जसः स्थाने इं इस्थादेशो न जातः । लग्नानि । लग्न+जस् । विशेषण-विशेष्ययोः समानलिङ्गकस्वमिति न्यायेन अभ्रशब्दस्य पुल्लिङ्गत्वात्तस्य विशेषणस्याऽपि पुल्लिङ्गत्वे जाते, ३४९ मू० नकारलोपे,३६० सू० गकारद्वित्वे, १००१ सू० प्रकारस्य प्राकारे,१०१५ सू० जसो लोपे लगा इति भवति । पर्वतेषु । पर्वत+ सुव । अपभ्रशे पर्व तार्थे १०९३ सूत्रेण डुङ्गरिशब्दः प्रयुज्यते, १०१८ सू० सुवः स्थाने हि इत्यादेशे शारिहि इति भवति । पथिकः पहिउ, इत्यस्य प्रक्रिया १०८६ सूत्रे ज्ञेया। रटन् । रधातुः शब्दकरणे। रद्+शत । ९१० सू० प्रकारागमे, १९५ सू० टकारस्य डकारे, ६७० सू० शतु: रत इत्यादेशे, ११०० सू० अप्रत्यये, सिप्रत्यये, १००२ सू० अकारस्थ उकारे, १०१५. सू० सेलोप रडन्त उ इति भवति । यातिजाइ, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके शेया। यजो , प्रक्रिया १००१ सूत्रस्य चतुर्थे श्लोके ज्ञया । एषः । एतद्+सिं। १०३३ सू० एतदः स्थाने एह इत्यादेशे, १००३ सू० प्रकारस्य प्रोकारे, १०१५ सू० सेलोपे एहो इति भवति । गिरि-गिलन-मनाः । गिरि-गिलन-मानस्+सि | २२८ सू० उभयत्रापि नकारस्थ थकारे, ११ सू० सकारलोपे १००२ सू० अकारस्य उकारे, सेर्लोपे गिरि-गिलण-मणु इति भवति। सः सो, प्रक्रिया ११०९ संस्य ततीयश्लोके जेया। किम-कि, प्रक्रिया ११०५ सत्रे ज्ञेया। धन्याया:-षणहे. प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके शेया। अत्र १०८१ सूत्रेण उच्चारणस्थ लाघवे जाते पण इति