SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ h -AAAAmmar..xnn.. *प्राकृत-व्याकरणम् * चतुर्थ पादा शान्तरं गच्छता कान्तेन सह नाहं गता-गतवती,तस्य कान्तस्य वियोगेन च नाऽहं मृता-पञ्चस्त्रमुपगता । अतः कथनाम सन्देशरस्माभिः दातुमुचिन: ? मोचित इति भावः। पतः। अव्ययपदमिदम। इत्यत्र २४५सयकारस्य जकारे,१७७ सतकारलाप.३७सविसस्य डो(प्रो) इत्यादेशे,डितिपरेऽन्त्यस्वरादेलोपे,बाहुल्येन १० सूत्रस्थाअवृत्ती,१००० सू० प्रोकारस्य उकारे जाउ इति भवति । प्रवासमा । प्रपूर्वकः वस-धातुः प्रवासे । प्रवस् + शत् । १०६९ सू० रेफलोपे. ९१० सू० प्रकारस्याऽऽगमे,६७० स० शत: स्थाने त इत्यादेशे, टाप्रत्यये,१०१३ सुदास्थानेऽनुस्वारे,स्थानिवस्वात् १००४ सू० अकारस्य स्थाने एकारे पवसन्त इति भवति । सह । अव्ययपदमिदम् । प्रस्तुतसूत्रेण सह इत्यस्य सहुँ इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे सई इति भवति । न ! अध्ययपदमिदम् । संस्कृतबदेवाऽपभ्रंशे प्रयुज्यते । यता मतासि । १७७ सतकारस्य लोपे,१८० सयकारस्य श्रतो, १००१ सू० प्राकारस्य स्थाने प्रकारे, १०१५ सु० सेलोपे गय इति भवति । मृता। मुना +सि ! १३१ सू० ऋकारस्य स्थाने उकारे,१७७ सु० तकारस्य लोपे,१००१ सू० आकारस्य प्रकारे, सेलोप पुष इति भवति । वियोगेन । वियोग+टा । १७७ सू० यकारस्य गकारस्य च लोपे,१०१३ सू० सास्थानेऽनुम्बारे, स्थानियत्वात् १००४ सू० प्रकारस्य स्थाने एकारे विनोएं इति भवति । तस्थ । तद्+इस् । ११ सू० ६कारलोपे, १००९ सू० उसः स्थाने स्सु इत्यादेशे तस्सु इति भवति । लम्ज्यते । श्रोलस्ज् (लस् । लअजाकररणे। लरज+का+ते । इत्यत्र ३४९ सू० सकारलोपे, ३६० सू० जकारद्वित्त्वे, ६४९ सू० क्यस्थ इज्ज इत्यादेशे, प्रज्झीने परेण संयोज्थे, ६२८ सू० ते इत्यस्य इमादेशे लजिम इति भवति । - म्वेशान् । सन्देश+शस् । २६० सू० शकारस्य सकारे, ११०० सू० स्वार्थे डड-(अण्ड)-प्रत्यये, डिति परेऽन्त्यस्यरादेर्लोपे, प्रज्झीने परेण संयोज्ये,१००१ सू० प्रकारस्य प्रकारे, १०१५ सू० शसो लोपे सवेषाम इति भवति । ददतीभिः । हुदाञ्-(दा)-धातुः दाने। दा+शत् । १००० सू० प्राकारस्य एकारे, ६७० सू० शतुः स्थाने न्त इत्यादेशे, स्त्रीत्वविवक्षायां ५२१ सू० डी-(ई)-प्रत्यये, १० सू० स्वरस्य लोपे, पभोने परेण संयोज्ये, १००० सू० ईकारस्य एकारे, १०८१ स. उच्चारणस्थ लाघवे, भिस्-प्रत्यये, १०१८ सू० भिसः स्थाने हि इत्यादेशे, १०५२ सू० उच्चारणस्य लाधये देन्ते हि ६४ सू० संयोगे परे ह्रस्वे विन्तेहि इत्यपि भवति । सुभगजनस्य । सुभग जन+डस् । १५७ सू० भकारस्य हकारे,१७७ सू० गकारलोपे, १८० सूज यकारश्रुतौ,११ सूत्रवृत्तिमनुसृत्य जकारस्यादिभूतत्वात् १७७ सूत्रस्याऽप्रबृती, २२८ सू. नकारस्य णकारे, १००१ स० उत्सः स्सु इत्यादेशे सुहय-अणस्सु इति भवति । सह सहूँ इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। नहेनाहि । नहि इत्यस्य पदस्य स्थाने नाहि इत्यादेशो भवति । यथा --- इतः मेघाः पिबन्ति असमितः वयानल: प्रावर्तते । प्रेक्षस्व भीरिमारणं सागरस्काऽपि कणिका नापनश्यते ।।४।। भावार्थ:-सागरस्थ गाम्भीर्य प्रतिपाद्यते । इत:-अस्मात् पाश्चात् मेघाः जलदाः जलं पिबम्ति, इत:-अस्मात् पाश्चात यावाल: सामुद्रो बन्हि आवतंतते-प्रावर्तनं करोति,सागरस्य जलं शोषयतीति यावत् । तथापि हे मित्र! सागरस्य गभीरिमाणम्-गाम्भीर्य प्रेक्षस्व-पश्य यद् एकाऽपि कणिका-बिन्दुमात्रमपि नाहि अपभ्रश्यते हीनता, न्यूनतां न यातीति भावः । इतः । अव्ययपदमिदम् । १०९१ सू० इलस् इत्यस्य स्थाने एत्तहे इत्यादेशे,१०८१ सू० हकारगतस्य एकारस्य उच्चारणस्थ लाघवे एस इति भवति । मेघाः । मेध+जस 1 इत्यत्र १५७ सू० पकारस्य हकारे, १०१५ सू० जसो लोपे मेह इति भवति । पिबन्ति । पा पाने । संस्कृतनियमेन पिव+प्रन्ति इति
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy