________________
-
S
P
A wwww
wwwwwwwwwwwwwAVAL
१४४ ★ प्राकृत-व्याकरणम् *
चतुर्थपादः प्रथमद्वितीय-वर्णो न भवतः । तथा युधातोरपि जकारस्य चकारो न भवति । ९९८ सूत्रे मूत्रकारण ९९६ सूत्र-सम्बन्धिमतान्तरं प्रदशितमिति भावः। यथा---गतिः । गति+सि। इत्यत्र ९९६ सूबेण गकारस्थ ककारप्राप्सिरासीत्परन्तु प्रस्तुल-सूत्रेण तन्निषेधे ५०८ सू० इकारदीर्घ ११३७। सू० सेरिकारलोपे,११ सू० सकारलोपे गती इति भवति । एवमेवाग्रिमा अपि शब्दाः योध्याः । यथा-धर्मः। धर्म+ सि । ३५० स० रेफलोपे, ३६० सू० मकारद्वित्त्वे, ४९१ सू० सेडोंः, डिति परेऽन्त्य-स्वरादोंपे धम्मो इति भवति । अत्र ९९६ सू० धकारस्य स्थाने खकार प्राप्तः,किन्तु प्रस्तुत-सूत्रेण तम्निषेधो विहितः । ओमृतः । जीमूत-+सि ! पूर्ववदेव जीमूतो इति साध्यम् । अत्र प्रस्तुतसूत्रेण जकारस्य चकारो नाऽभूद् । झर्भरः । झझर+सि । ३५० सू० रेफलोपे,९९६ सू० द्वितीय-भकारस्य छकारे,३६० सू० छकारहित्त्वे, ३६१ सू० पूर्वछकारस्य चकारे,पूर्ववदेव मच्छरो इति भवति । अत्र प्रस्तुतसूत्रबलेन प्रथमझकारस्य छकारो न जातः । समस्कः । डमरुक+सि । पूर्ववदेव उमरको इति भवति । अत्र डकारस्य टकारो न जातः । ढक्का । का+सि । सेलोपे का इति भवति । अत्र ढकारस्य ठकारो न जातः । वामोदरः । दामोदर+सि । इत्यत्र ९९६ सू० द्वितीयदकारस्य तकारे, पूर्ववदेव वामोतरी इति भवति । अत्र प्रथमदकारस्य तकारो न जात बालकः । बालक+सि । पूर्ववदेव बालको इति साध्यम् । अत्र प्रस्तुत-सूत्रेण बकारस्य पकारो न जातः । भगवती। भगवती+सि । ९९६ स० गकारस्य ककारे, सेलोपे भकश्ती इति भवति । मत्र भकारस्य फकारो न जातः । नियोजितम् । नियोजित-+सि । २२९ सत्रेण नकारस्थ जकारप्राप्ती ९९९ सूत्रबलेन ९१५ सूत्रेण कार-निषेध, ९९६ सू० युधातोः जकारस्य चकारप्राप्ती, परन्तु प्रस्तुतसूत्रवलेन तस्य जकारस्य चकाराभावे, ५१४ सू० सेम कारे, २१ सू० मकारानुस्वारे नियोजितं इति भवति।
___ERE--प्राक्तन-पैशाचिकवद् । धूलिकापैशाचीभाषायां खलु ९२६ सत्रादारभ्य १५८ सूत्रपर्यन्त यानि कार्याण्युक्तानि तदतिरिक्तानि कार्याणि प्राक्तन-(पूर्वभणित)-पैशाची-भातुल्यानि ज्ञेयानि । ९७४ सूत्रादारभ्य ९९५ सूत्रपर्यन्तं पंशाचीभाषा-प्रकरण विद्यते तत्प्रकरणे यानि कार्याणि भणितानि, तेषां कार्याणां चूलिकापेशाची-भाषाप्रकरणेऽपि ग्रहण बोध्यमिति भावः । यथा--नगरम् । नगर+सिनकर, प्रक्रिया ९९६ सूत्रे द्रष्टव्या । अत्र पैशाची भाषाप्रकरणस्य ९९५ सूत्रेण २२८ सत्रविहिता नकारस्य णकारप्रालिनिषिद्धा। पैशाची-भाषा-विहित-कार्य ९९९ सूत्र-बलेन चूलिका पैशाचीभाषायामग्नि संजातमिति भावः । एवमेवानेऽपि बोध्यम् । यथा--मार्गणः। मार्गण+सिमबानो प्रक्रिया ९९६ सो ज्ञेया । अनयोनों एवं न भवति । नकर इत्यत्र नकारस्य २२८ सूत्रेण प्राप्तः णकारः,९९५ सूत्रेण निषिद्धः । मकनो इत्यत्रापि पूर्वचदेव २२८ सू० नकारस्य स्थाने णकारो न जातः । रणस्य च नत्वं स्यात् । मागण:मक्कनो,इत्यत्र ९७७ सू० पाकारस्य नकाशे जातः,णकारस्य नकारविधायक किमपि सत्र चूलिकापशाची. भाषायां नास्ति, किन्तु पैशाच्यां तद्वर्तते । ९९९ सूत्रबलेन तस्थ पैशाचीभाषा-नियमस्य बलिकाशाच्यामपि प्रवृतितिा एकमन्यपि । एवमेवाऽन्ये प्रयोगा अपि समन्वगन्तव्याः। समाप्तं चूलिकापंशामीप्रकरणम् । चूलिकापैशाचीभाषायाः प्रकरणम्-अध्यायः समाप्तम् । मूल ग्रन्थे चूलिकापशाचीभाषा.प्र. करणस्य समाप्तो बालमनोरमा-टीकायापि तद्विवेचनं समाप्तिमेति ।
पंशाची चूलिका टीका, पूर्गा बालमनोरमा ।
आत्मगुरोः प्रसादेन, ज्ञानेन्दु-मुनि-निमिता ॥ * समाप्तं धूलिकापैशाची माषा-विवेचन *