________________
* प्राकृत व्याकरणम् *
चतुर्थपादः एवंविधया । एवंविधा+टा । ५१८स टास्थाने एकारे एवंविधाए इति भवति । भगवत्या । भगवती। ट।। ५१५ सू० टास्थाने एकारे भगवतीए इति भवति । कथम् धं,प्रक्रिया ९३८ सूत्रे शेया । तापसबेष-प्रणाम । तापस-वेष-प्रन्हाण-सि । ९८० स.० पकारस्प सकारे, ३५० स० रेफलोपे, वैकल्पिकत्वात् ३६८ सू० गकारस्य द्वित्त्वाभावे, ९७७ सू० कारस्य नकारे, ५१४ स० सेर्मकारे, २३ सू० मकारानुस्वारे, तापसवेसंगहन इति भवति । कृतम् । १२६ स. ऋकारस्य प्रकारे, २३ सू० मकारानुस्वारे कतं इति भवति । ईदृशम् । १०५ सू० ईकारस्य एकारे, ९८८ सू० दृ इत्यस्य ति इत्यादेशे, १८० सू० शकारस्य सकारे, २३ सू० मकारानुस्दारे एतिसं इति भवति । अष्टपूर्वन् । १२८ सू० ऋकारस्य इकारे, ९७८ सू० दकारस्थ तकारे, ३०५ सू० ष्टस्य ठकारे, ३६० स० ठकारद्वित्वे, ३६१ सू० पूर्वठकारस्थ टकारे, ९४१ सू० पूर्वशब्दस्य पुरव इत्यादेशे, २३ सू० मकारानुस्वारे अतिदुपुरवं इति भवति । महाधनम् । २३ सू० मकारानुस्वारे महायनं इति भवति । दृष्टया -तद्धन, प्रक्रिया ९८४ सूत्रे ज्ञेया । भगपन् । भगवद्+ति । संस्कृतनियमेन भगवन् + सि इति जाते, ९३५ सू० नकारस्य मकारे, २३ सू० मकारानुस्वारे, ११।३७ सू० सेरिकारलोपे, ११ सू० सकारलोपे भगवं । इति भवति । यदि । अध्ययपदमिदम् । ९७८ सू० कारस्य तकारे यति इति भवति। माम् । अस्मद् +अम्म ,प्रक्रिया ५९६ सूत्रे ज्ञेया । वरम् । २३ सू० मकारानुस्वारे वर इति भवति । प्रयच्छसि । ३५० स० रेफलोपे पयच्छसि इति भवति । राजन् ! । राजन+सि । ९३५ सू० नकारस्थ मकारे, २३ सू० मकारानुस्वारे राजं ! इति भवति च। अव्ययपदमिदम्। संस्कृतसममेव पैशाच्या प्रयुज्यते । तावत्-दाव, प्रक्रिया ९३३ सूत्र ज्ञेया। लोकस्व । लोकदर्शने । लोक+सिन् । ९१० स० प्रकारागमे, ६६२ स० सिवः स्थाने सु इत्यादेशे.६६४ स. सोल कि लोक इति भवति ।तायच तया दराव खतावच तोए रातो पेव तिटो, प्रक्रिया ९९२ सूत्र ज्ञेया। सः। तद्+सि । ५७५ सू० तकारस्य सकारे, ११ सू० दकार-लोपे, सेडोः, डिति परेऽन्त्यस्वरादेर्लोपे सो इति भवति । आगच्छन् । प्रापर्वक्र: गम्ल-गम्)-धातुः प्रागमने । प्रागम्+शत । ८८६ सू० मकारस्य इकारे,३६० सू० कारद्वित्त्वे, ३६१ सू० पूर्वछकारस्य चकारे, ६७० सू० शतुः स्थाने माण इत्यादेशे,९७७ सू० णकारस्य नकारे, ४९१ सू० सेझैः, डिति परेऽन्त्यस्वरादेलोप मागमछमानो इति भवति । राजा । संस्कृतसममेव पैशाच्या प्रयुज्यते । उपर्युक्तेषु प्रयोगेषु प्रस्तुतसूत्रबलेन शौरसेनीभाषा-विधानस्य प्रवृत्तितिति भावः ।
५.पैशाच्यामिति । प्राकृतभाषागतानि १७७ मूत्रादारभ्य २६५ सूत्रपर्यन्तं यानि सूत्राणि भणितानि, तदुक्तानि निखिलानि कार्याणि पैशाचीभाषायां न भवन्तीति भावः । यथा-मकर-केतुः। प्रत्र १७७ सूत्रण ककारयोः, नकारस्य च लोपप्राप्तिः,किन्तु ९९५ सूत्रेण सा निषिद्धा । ततः ५०८ सू० उकारस्य ऊकारे, १।१।३७। सू० सेरिकारलोपे, ११ सू० सकारलोपे मकरकेतू इति भवति । सगरपुत्रवचनम् । अत्रापि १७७ सू० गकारस्य चकारस्य च लोपप्राप्ती,प्रस्तुतसूत्रेण तन्निषेधे ३५० सू० रेफलोपे, ३६० सू० तकारद्वित्त्वे,२३ सू० मकारानुस्वारे सगर-पुस-वन इति भवति । विजयसेनेन लपितम् । अत्र १७७ सू० ज, य, प, त इत्येतेषां वर्णानां लोपप्राप्तिरासीत्, प्रस्तुतसूत्रेण तन्निषेधे,२२८ सूत्रेण नकारस्य
कार-प्राप्तौ तम्निषेधे च, २३ सू० मकारानुस्वारे विजयसेनेन लपितं इति भवति । भवनम् इत्यत्र १७७ सूत्रेण दकारस्य लोपप्राप्तिः, प्रस्तुतसूत्रेण तन्निषेधे, ९७८ सू० दकारस्य तकारे, पूर्ववदेव मतनं इति भवति । पापम् । अत्र १७७ सूत्रेण पकार-लोप-प्राप्ती, प्रस्तुतसूत्रेण तन्निषेधे, पूर्ववदेव पापं इति भवति । पायुषम् । इत्यत्र १७७ सूत्रेण यकारलोप-प्राप्तिः,तथा १८७ सू० धकारस्य हकारप्राप्तिरासीत