SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ * *** * तथातह छक्काए गिण्हेंई, घट्टेई आरभैइ खिवैइ दट्ठ जई। साहारण-चोरियग, देइ परकं पैरेंटुं वा ॥८७॥ ____ व्याख्या-तथेति समुच्चये येति पदं सर्वत्रेहाऽपि सम्बध्यते, ततश्च या काचिदगारिणी 'षटकायान्' लवणो-दका-ग्निपवनपरितति-फल-मत्स्यादिजीवसमूहान, किमित्याइ-'गृहणाति' हस्ताभ्यामादत्ते, तया दीयमानं, न कल्पत इति सर्वत्रायोजनीयं २८ तथा 'षट्टयति' षटकायानेव शेषशरीरावयवैः सङ्घट्टयति, अयमर्थः-कारोपितबदरकरीरजपाकुसुमदाडिमपुष्पादीनि मस्तकस्थितसिद्धार्थराजिकाशतपत्रिकाकुसुमादीनि गलावलम्बिताम्लानमालतीमालादीनि परिधानाधन्तरस्थापितसरसवन्तताम्बूलपत्रादीनि च शरीरेण चलयतीति २९ । तथा 'आरमते' षटकायानेव विनाशयति, तत्र खननमर्दनादिना पृथिवीकायं मजनवनधावनादिनाऽकार्य उन्मुकषट्टनादिनाग्निमुष्णभक्तादेः फुत्करणादिना मारुतं फलादेः कर्त्तनादिना वनस्पति स्फुरन्मत्स्यादिच्छेदनादिना सकार्य विराधयतीति भावना ३० । तथा 'क्षिपति' प्रकृतपटकायानेव भूम्यादौ मुञ्चति, किं कृत्वेत्याह-'इष्ट्वा' अवलोक्य, कानित्याह- यतीन्' साधून, यतिमिक्षादानबुद्धथेति तात्पर्यम् ३१ । तथा 'साधारणं' बह्वायत्त, तद्ददातीति योगा, तत्र च साधारणानिसृष्टवदोषा वाच्याः ३२ । 'चौरितकं. चौरिकया गृहीतं 'ददाति' मत्यादिना साधुभ्यः प्रयच्छति, तत्र च दोषाः प्रतीता एव ३३ । तथा 'पराक्यं परसत्कमथवा 'परार्थ परनिमित्तं, कार्यटिकादिदानाय कल्पितमित्यर्थः। 'वा' विकल्पे, ददाति । अत्र च परसत्के तत्स्वामिनाऽननुज्ञातेऽपरभिक्षाचरदानाय कल्पिते च दीयमानेऽदत्तादानान्तरायादयो दोषाः स्यः ३४-३५ । इति गाथार्थः ।। ८७॥ तथा 2.43
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy