________________
तसभिरपि दीयमानं न कल्पते, कार्पासास्थिकसट्टन-देयवस्तुखरण्टितहस्तधावनादिदोपसम्भवात् , यदि च कर्त्तयन्त्यपि सन्न तन्तुश्चेतताविधायिना शचूर्णेन हस्तौ न धवलयति, धवलितौ वा शौचानाग्रहशीलतया मिक्षा दया न प्रक्षालयति. लोटगन्ती विकीर्ण यन्नी मिजयन्ती च कार्यासं तदस्थिकांश्च न सट्टयति, देयद्रव्यखरण्टितकरधावने जलं च न विराध यति तदा कल्पत इति २२ । तथा '+दलति' सचित्तगोधूमादिवान्यं घरटेन पिनष्टि, इयं हि भिक्षादानायोतिष्ठन्ती बीजानि सबपति दत्वा च करौ प्रक्षालयतीति न गृह्यते, यदि च खयोगेन मुक्तदलनव्यापाराऽचेतनं वा किश्चिद्दलन्ती ददाति दत्त्वा च हस्तप्रक्षालनं न करोति तदा गृह्यत इति २३ | तथा 'xविलोलयति' करमन्धनादिना दध्यादि मध्नाति, सा हि संसक्तदध्यादिलिसकरा भिक्षां ददती सच्चवधं विदध्यादिति न गृह्यते, यदि चासंसक्तदध्यादिकं मथ्नन्ती दद्यात्तदा गृह्यत इति २४ । तथा 'जेमई' ति 'जेमति' मुझे-ऽम्यवहरतीत्यर्थः, भुञ्जाना याचमनं विधाय यदि साधुम्यो दद्यात्तदाऽप्कायविराघना, अथैतदोषमयातदकत्वैव वितरेचदोच्छिष्टमप्येते न स्यजन्तीत्यादिजनापवादः स्यात्तत्र च महान्दोषो, यदाह-"छक्काय-1 दयावंतो, वि संजओ दुल्लहं कुणह बोहिं । आहारे निहारे, दुगुछिए पिंडगहणे वा ॥१॥" इत्यतो न करपते, यदि च कवलं मुखेऽक्षिपन्ती तदा चोपनतसाघुम्य उत्थाय दद्याचदा कल्पत इति २५। तथा.या काचिन्महिला गुपियपिनसवा स्यात्तत्सकाशाद्गच्छनिर्गता जिनकल्पिकादयः प्रथमदिनादारभ्य भिक्षा न गृहन्त्येव, स्थविरकल्पिकास्त्वशैमासान यावद्वन्ति, नवममासेतु निषीदनोत्थानाभ्यां दीयमानं न गृहन्ति, गर्मपीडासम्मवाद, स्वमावस्थितया
+" लयति" य.! " विरोळ्यवि" ह. क.।