SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ SACREAKINGER आपाइभतिर्विहरबाटगृहं गतः। तत्रैकमोदकलाभादेष सूरीणामिति विचिन्त्य पुनः काणीभूय द्वितीयं जग्राह, असानुपाभ्यायस्थेति कब्जरूपेण उतीयमादाय सङ्घाटिकसाधोरसाविति कुष्टिकरूपेण चतुर्थमग्रहीत् । तच्च गवाक्षस्थेन नटेन दृष्ट्रा चिन्तितंअहो । मन्योऽसौ नटो भवतीति सङ्ग्रहार्थ तमाकार्य यथेष्टं मोदकाँश्च दत्वा नित्यमत्रागन्तव्यमिति मणितवान् । अथ रूपपरावर्तादिलब्धिवानसौ तथोपचरणीयो यथा त्वत्पुत्रीरक्तोऽस्मद्गृहमायातीति नटेन शिक्षितया पत्न्या स नित्यं गृहमागच्छन् तथा स्वपुत्रीभिलोभितो यथा आमघट इवाम्भोभिभिन्नो गुरूनवगणय्य मुक्तवतस्ता: परिणीतवान् । तथाऽस्य | पश्यतो मद्यादिकं ता नासेविषु । अन्यदा विविधनटावृतो नृपगृहं गत्वा तत्र द्यूतव्याक्षेपाद्वलितो निर्व्यञ्जनत्वात्पीतमद्यविसंस्थुलाः स्वपत्नीविलोक्य विषयविरक्तो निर्गच्छन्नसौ नटीभिस्ताभिर्याचिताजीवनोपायः सप्ताहेन श्रीभरतचक्रि नाटकं नन्य. मकरोत् । ततश्च राज्ञे निवेध लब्धामरणपात्रादिसमुदायः स्वयं श्रीमस्तीभृय चक्रोत्पत्ति-दिग्विजय-राज्याभिषेकादिचरितं नाटितवान् ) यावदादर्शगृहं गतस्तत्र चाहुलीयकरत्नपातात्तयैव भरतभावनया लब्धकेवलालोको गृहीतद्रव्यलिलो राजादीन सम्बोध्य पात्रीकृतराजसुतपञ्चशत्याः प्रदत्तवतो भन्यलोकमबोधयत् । एवं मोदकादिग्रहणान्मायापिण्ड: ३ । अथ लोमे केसरकसाधुर्यथा-चम्पायां साधुरेको मासक्षपणपारणे उत्सवदिने सिंहकेसरमोदकाभिग्रही विहरंस्तदलाभात्सञ्जातक्लिष्टाध्यवसाय: केसरानेव ध्यायन रजनीयामद्वयं भ्राम । यावदेकेन श्राद्धेन विज्ञातंतद्भावेन प्रदत्तमोदकपूणस्थालेन भगवन् ! पुरिमाद्धों ममास्तीति पूणों न वेति पृष्टः । स च दत्तोपयोगो यावद्धमीक्षते तावश्चन्द्रदर्शनादरात्रं + अयमर्द्धचन्द्राकार चित्रान्तर्गतः पाठः केवलं अ. पुस्तक एवावलोक्यते । AAS A%ESARICKS
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy