SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ षड्द्रव्य-पंचास्तिकायवर्णन हाभय व्याख्या गाभा-१४ अत्र द्रव्यस्यादेशवशेनोक्ता सप्तभंगी। सिय अस्थि णत्थि उहयं अव्वत्तव्वं पुणो य तत्तिदयं । दव्वं खु सत्त-भंगं आदेस-वसेण संभवदि ।।१४।। स्यादस्ति नास्त्युभयमवक्तव्यं पुनश्च तत्रितयम् । द्रव्यं खलु सप्तभंगमादेशवशेन सम्भवति ।।१४।। १ स्यादस्ति द्रव्यं, २ स्यान्नास्ति द्रव्य, ३ स्यादस्ति च नास्ति च द्रव्यं, ४ स्यादवक्तव्यं द्रव्यं, ५ स्यादस्ति चावक्तव्यं च द्रव्यं, ६ स्यान्नास्ति चाक्तव्यं च द्रव्यं, ७ स्यादस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । अत्र सर्वथात्वनिषेधकोऽनेकान्तद्योतकः कथंचिदर्थ स्याच्छब्दो निपातः तत्र स्वद्रव्यक्षेत्रकालभावैरादिष्टमस्ति द्रव्यं, परद्रव्यक्षेत्रकालभावैरादिष्टं नास्ति द्रव्यं, स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च क्रमेणादिष्टमस्ति च नास्ति च द्रव्यं, स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावेश्च युगपदादिष्टमवक्तव्यं द्रव्यं, स्वद्रव्यक्षेत्रकालभावैर्युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्चादिष्टमस्ति चावक्तव्यं च द्रव्यं, परद्रव्यक्षेत्रकालभावैर्युगपत्स्वपरद्रव्यक्षेत्रकाभावैश्चादिष्टं नास्ति चावक्तव्यं च द्रव्यं, स्वद्रव्यक्षेत्रकालभावैः परद्रव्यक्षेत्रकालभावैश्च युगपत्स्वपरद्रव्यक्षेत्रकालभावैश्वादिष्टमस्ति च नास्ति चावक्तव्यं च द्रव्यमिति । न चैतदनुपपन्नम् सर्वस्य वस्तुनः स्वरूपादिना अशून्यत्वात्, पररूपादिना शून्यत्वात्, उभाभ्यामशून्यशून्यत्वात्, सहावाच्यत्वात्, भङ्गसंयोगार्पणायामशून्यावाच्यत्वात्, शून्यावाच्यत्वात्, अशून्यशून्यावाच्यत्वाच्चेति ।।१४।। हिन्दी समय व्याख्या गाथा-१४ __ अन्वयार्थ-[ द्रव्यं ] द्रव्य [ आदेशबशेन ] आदेशवशात् [ विवक्षा वश ] [ खलु ] वास्तवमे ( स्यात् अस्ति ) स्यात् अस्ति, ( नास्ति ) स्यात् नास्ति, [उभयम् ] स्यात् अस्ति-नास्ति, ( अवक्तव्यम् ) स्यात् अवक्तव्य ( पुन: च ) और [ तत्रितयम् ] अवक्तव्यतायुक्त तीन 'भंगवाला ( म्यात अस्ति अवक्तव्य, स्यात नास्ति-अवक्तव्य और स्यात् अस्ति-नास्ति-अवक्तव्य ) - ( सप्तभङ्गम् ) इस प्रकार सात भंगवाला [सम्भवति ] है। टीका– यहाँ द्रव्यके आदेशके वश सप्तभंगी कही है। (१) द्रव्य ‘स्यात् अस्ति' है, (२) द्रव्य ‘स्यात् नास्ति' है, (३) द्रव्य 'स्यात अस्ति और नास्ति' है, (४) द्रव्य ‘स्यात् अवक्तव्य' है, (५) द्रव्य 'स्यात् अस्ति और अवक्तव्य' है. (६) द्रव्य 'स्यात् नास्ति और अवक्तव्य' है, (७) द्रव्य ‘स्यात अस्ति, नास्ति और अबक्तव्य है।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy