SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ पंचास्तिकाय प्राभृत मोक्षमार्गप्रतिपादनरूपेण “णिच्छयणयेण' इत्यादि गाथाद्वयं, तदनंतरं यस्यैव शुद्धात्मभावनोत्पनमतीन्द्रियसुखमुपादे प्रतिभाति स एन भावमायापिरिति त्यागानमुख्यत्वेन "जेण विजाण' इत्यादि सूत्रमेकं, अथ निश्चयव्यवहाररत्नत्रयाभ्यां क्रमेण मोक्षपुण्यबंधौ भवत इति प्रतिपादकमुख्यत्वेन "दसणणाणचरित्ताणि'' इत्याद्यष्टमस्थले सूत्रमेकं, अथ निर्विकल्पपरमसमाधिस्वरूपसामायिकसंयमे स्थातुं समर्थोपि तत्त्यक्त्वा यद्येकान्तेन सरागचारित्रानुचरणं मोक्षकारणं मन्यते तदा स्थूलपरसमयो भण्यते यदि पुनस्तत्र स्थातुमीहमानोपि सामग्रीवैकल्येनाशुभवंचनार्थं शुभोपयोगं करोति तदा सूक्ष्मपरसमयो भण्यत इति व्याख्यानरूपेण “अण्णाणादो णाणी' इत्यादि गाथापंचकं, तदनंतर तीर्थंकरादिपुराणजीवादिनवपदार्थप्रतिपादकागमपरिज्ञानसहितस्य तद्भक्तियुक्तस्य च यद्यपि तत्काले पुण्यात्रवपरिणामेन मोक्षो नास्ति तथापि तदाधारेण कालांतरे निरास्रवशुद्धोपयोगपरिणामसामग्रीप्रस्तावे भवतीति कथनमुख्यत्वेन "सपदल्डं' इत्यादि सूत्रद्वयं, अथास्य पंचास्तिकायप्राभृतशास्त्रस्य साक्षान्मोक्षकारणभूतं वीतरागत्वमेव तात्पर्यमिति व्याख्यानरूपेण "तहा णिन्चुदिकामो'' इत्यादिसूत्रमेकं, तदनंतरमुपसंहाररूपेण शास्त्रपरिसमाप्त्यर्थं “मग्गप्पभावणटुं' इत्यादि गाथासूत्रमेकं । एवं द्वादशान्तरस्थलैमोक्षमोक्षमार्गविशिष्टव्याख्यानरूपे तृतीयमहाधिकारे समुदायपातनिका । तद्यथा सं० ता...-अथ गाथापूर्वार्द्धन जीवस्वभावमपरार्द्धन तु जीवस्वभावनियतचरितं मोक्षमार्गों भवतीति च प्रतिपादयति । अथवा निश्चयज्ञानदर्शनचारित्राणि जीवस्वभावो भवतीत्युपदिशति, जीवसहाओ गाणं अपडिहददसणं अणण्णमयं-जीवस्वभावो भवति । किं कर्तृ । ज्ञानमप्रतिहतदर्शनं च । कथंभूतं | अनन्यमयमभिन्नं इति पूर्वार्द्धन जीवस्वभावः कथितः। चरिय य तेसु णियदं अत्थित्तमणिदियं भणियं-चरितं च तयोनियतमस्तित्वनिंदितं भणितं कथितं । कि । चरितं च। किं तत् । अस्तित्वं । किविशिष्टं । तयोर्ज्ञानदर्शनयोर्नियतं स्थितं । पुनरपि किविशिष्टं । रागाद्यभावादनिदितं, इदमेव चरितं मोक्षमार्ग इति । अथवा द्वितीयव्याख्यानं । न केवलं केवलज्ञानदर्शनद्वयं जीवस्वभावो भवति किंतु पूवोक्तलक्षणं चरितं स्वरूपास्तित्वं चेति । इतो विस्तर:समस्तवस्तुगतानंतधर्माणां युगपद्विशेषपरिच्छित्तिसमर्थं केवलज्ञान तथा सामान्ययुगपत्परिच्छित्तिसमर्थ केवलदर्शनमिति जीवस्वभावः । कस्मादिति चेत् ? सहजशुद्धसामान्यविशेषचैतन्यात्मकजीवास्तित्वात्सकाशात्संज्ञालक्षणप्रयोजनादिभेदेपि द्रव्यक्षेत्रकालभावैरभेदादिति पूर्वोक्तजीवस्वभावादभिन्नमुत्पादव्ययध्रौव्यात्मकमिंद्रियव्यापाराभावनिर्विकारमदूषितं चेत्येवं गुणविशिष्टस्वरूपास्तित्वं जीवस्वभावनियतचरितं भवति । तदपि कस्मात् ? स्वरूपे चरणं चारित्रमिति वचनात् । तच्च द्विविधं स्वयमनाचरतोपि परानुभूतेष्टकामभोगेषु स्मरणमपध्यानलक्षणमिति तदादि परभावपरिणमनं परचरितं तद्विपरीतं स्वचरितं । इदमेव चारित्रं परमार्थशब्दवाच्यस्य मोक्षस्य कारणं न चान्यदित्यजानतां मोक्षान्दिनस्यासारसंसारस्य कारणभूतेषु मिथ्यात्वरागादिषु निरतानामस्माकमेवानंतकालो गतः, एवं ज्ञात्वा तदेव जीवस्वभवनियतचरितं मोक्षकारणभूतं निरंतरं भावनीयमिति सूत्रतात्पर्य । तथा चोक्तं । “एमेव गओ कालो असारसंसारकारणरयाणं । परमट्ठकारणाणं कारणं ण हु जाणियं
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy