________________
२७ ]
२ अनुमानप्रस्तावः
प्रयोगः - अस्ति चेतनाचेतनात्मकं वस्तु वस्तुबलागमसद्भावात् । धर्मो हि सिध्यम् धर्मिणमवबोधयति
अन्यथा तदनुपपत्तेः । ततो यदुक्तम्---
१५
"भावोपधानमात्रे तु साध्ये सामान्यधर्मिणि ।
न कचिदर्थः सिद्धः स्यादनिषिद्धश्च तादृशम् ।।" [१०] बा० ३३१८७ ] इति ।
;
तत्प्रतिक्षिप्तम् भावोषधानमात्रस्य सत्ताविशेषणमात्रस्य सामान्यधर्मिणो वस्तुमात्रस्यापि ५ विपतिविषयत्वे तसिद्वि एव न कनिदर्थः सिद्धः स्यात्' इत्यस्यायोगात् । कथञ्चायम् “द्ददं वस्तुबलायातम् " [ प्र० वा० २१२०९] इत्यादिना भावोपघानमात्रमपि साध्यं प्रतिषेधनेव “अनिषिद्धं च तादृशम्" इति ब्रूयात् न चेत् प्रतिक्षणोपक्षीणबुद्धिः । अथ व्यवहारे तस्यानिषिद्धत्वं निषिद्धत्वं तु परमार्थे ततो मार्गभेदात न तद्वचनयोः परस्परतो विरोध इति चेत्; व्यवहारतोऽपि निषेधे किं नश्यति साध्यत्ववत् साधनत्वमपि नश्येत् अस्ति च तत् शब्दे नित्य- १० स्वस्य सत्येव ( सतैब ) शुद्धाशुद्धरूपेण साधनादिति चेत्; न तर्हि परमार्थतोऽपि तनिषेधो भावप्रतिक्षेपस्यापि तैव केनापि साधनोपपत्तेः । असतापि तत्साधने तदनित्यत्वसाधनमपि स्यात् । तन्न व्यवहारेपुण्यनिषिद्धमित्याद्युपपन्नमिति कथं न तद्वचनयोविरोधः कथं वा निषिद्धस्य साधने सिद्धसाधनत्वम् । तदेवं निरुपाधिकं सत्त्वं प्रसाध्य सोपाधिकं साधयन्नाह -
असिद्धधर्मिधर्मत्वेऽप्यन्यधानुपपत्तिमान् ॥६॥
हेतुरेव यथा सन्ति प्रमाणानीष्टसाधनात् । इति । असिद्धस्य अनिश्चितस्य धर्मिणो धर्मत्वेऽपि शब्दान्न केवलं सिद्धधर्मिधर्मत्वे, हेतुरेव गमक एव तद्भर्मत्वेऽप्यसिद्धि दोषाभावस्य निरूपितत्वात् । कीदृश: ? अन्यथा साध्याभावप्रकारेण अनुपपत्तिमान् असम्भववान् । अत्रोदाहरणम्- 'यथा' इत्यादि । यथेत्युदाहरणप्रदर्शने । सन्ति विद्यन्ते प्रमाणानि । बहुवचनं प्रतिमेदेन तद्बहुत्वात् । कुतः सन्ति : २० इष्टसाधनाम् इष्टस्य भावनैरात्म्यस्य साधनात् । व पुनः प्रमाणोपाधिकं सत्त्वं प्रतिपन्नं येन तदन्वदृष्टिरिष्टसाधनस्येति चेत् ? न तददृष्टावपि अन्यथानुपपत्तिमस्त्रेन गमकत्वात् । मा भून्नामान्यथानुपपत्तिमतोऽन्यथा गमकत्वं तथा गमकत्वम्, तथोपपस्यभावे कथमिति चेत् न ; अन्यथानुपपतेरेव पर्युदासवृच्त्या तथोपपत्तित्वात् तस्याः प्रसज्यप्रतिषेधरूपायाः अप्रातीतिकत्वात् । हेतुस्वरूपे तत्प्रतिपत्तिरेव च तथोपपत्तेरपि प्रतिपत्तिः श्रहिस्तदभावेऽपि दोषाभावात् । ततो नेदमंत्र २५ दूषणम् -
"
“उपात्तमेदे साध्येऽस्मिन् भवेद्वेतुरनन्वयः ।" [ प्र० वा० ३३१८८ ] इति । बहिरनन्वयेऽपि क्षतेरभावात् अन्तरनन्वयस्यासिद्धत्वात् । कुतः पुनरिष्टसाधनं प्रमाणादेव न तद्विपर्ययादपीति चेत् न ततोऽनिष्टस्यापि साधनात् ; • प्रतिपक्षस्य व्यवच्छेदानुपपत्तेः । साधयता
१ " मात्र पादानमात्रे " - प्र०वा० । २ मावशदानमा प० । ३ सत्येव के श्रा०, ब०, १० ॥ 2 असतोऽपि भा० ० प ५-हारे तस्यानि आ, ब०, १० । ६--धनस्य चेत् आ०, ब०, प० । ७ तथानुगा । ८ अन्यथानुपपत्तिप्रतिपतिरेव । ९-स्वदा भा भा०, ४०, प० ।
१५