________________
२।४]
२ अनुमानप्रस्तावः स्थितम्-'ततोऽपरम् । साध्याभासं विद्धादि साधनाविषयस्वतः । इति ।
यद्यप्रसिद्ध साध्यं धर्मिणो विद्यमानत्वमपि साध्यं भवेत् तत्रापि विप्रतिपत्तेः सम्भवात् ,
तदाह
जातेर्षिप्रतिपसीनां सत्सा साध्याऽनुषज्यते । इति ।
सुगममेतत् । विप्रतिपत्तीनामिति बहुवचनं संशयादिभेदेन तासां बहुत्वात् । न च साधयितुं ५ शक्यत इति चोद्यस्याभिप्रायः । तत्रोत्तरमाइ
सथेष्टत्वाददोषोऽयम् [ हेतोर्दोषत्रयं यदि ] ॥४॥ इति ।
तथा तेन सत्ता साध्येति प्रकारेण इष्टत्वात् जैनस्याभिमतत्वाद् अदोषो दोषो न भवति अयम् अनन्तर इति ।
पर इदानीमशक्यसाध्यतां तस्यां दर्शयन्नाह हेतोर्दोषत्रयं यदि इति । दोषाणामसि- १० द्धत्वादीनां त्रयं दोषत्रयं तो सत्तासाधनस्य यदि चेत् | नथा हि-यदि भावधर्मों हेतुः, कथमसिद्ध भावे सिद्धः । सिद्धश्चेद् ; भावोऽपि सिद्ध एवाव्यतिरेकात् । न हि तदव्यतिरिक्तं धर्म प्रतिपद्यमानस्तमेव न प्रतिपद्येत व्याघातात् । ततो न तस्य साध्यत्वं प्रसिद्धस्यैव तत्वोपपत्तेः । अथोभयधर्मः ; तदा व्यभिचारः, तस्य भाववदभावेऽपि भावात् , न ताशो हेतुरतिप्रसङ्गात् । कथं पुनर्भावधर्मस्याभावे सम्भवो यतो व्यभिचारः ? परस्य वचनादिति चेत् ; न ; वचनात् तत्सम्भवे ११५ अतिप्रसङ्गात् । असम्भवन्तमपि त्रुवाणो दृश्यत इति चेत् : स तहिं मिथ्यावादित्वेनैव निगृहीतव्यो न व्यभिचारेण असम्भवतस्तदभावात् , अभूतमुद्भावयतश्च स्वयं निग्रहावाप्तः । सम्भवत्येव कल्पितः स तत्रापि अमूर्तित्ववत् । अमूतित्वं हि मूर्तित्वप्रतिषेधमात्रमाकाशादाबिव.अभावेऽपि खरबिष्पाणादा वस्ति-अमूर्तमाकाशादि अमूर्त खरविघाणमिति च त्र्यपदेशात् , तदन्योऽपि कल्पितभाववदन्यत्रापि सम्भवन्न बिरुध्यत इति चेत् : न ; तस्य भावधर्मत्याभावात् , अतत्स्वभावत्वात् अतकार्यत्वाच्च, २, अन्यथा कल्पितत्वानुपपत्तेः । व्यबहारमात्रात्तस्यापि तद्धर्मत्वे वस्तुतः पक्षधर्मत्वाभावात् स एव दोषो वक्तव्यो न व्यभिचारः, तस्यावस्तुसत्यसम्भवात् । "वस्तुन्येप विकल्पः स्याद् विधेर्यस्त्वनुरोघतः।" [
] इति स्वयमेवाभिधानात । तन्न व्यभिचारोद्भावनमुपपन्नमिति चेत् : आस्तामेतत् , वक्ष्यमाणोत्तरत्वात् । यदि पुनरभावधर्मः ; तदा विरुद्धः, भावसाधनार्थमुपनीतेनाभावस्यैव साधनात् । तन्न सत्तार्यों साध्यत्वं तत्साधनम्य दोपत्रयाननिवृत्तः । तदुक्तम्
"नासिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ॥" [प्र०या० ३।१९० ] इति ।
विरुद्धत्वं विरुद्धसाधनत्वात् । तञ्च नासिद्धस्यैवाभावधर्मस्य चाक्षुपत्वादिवत् । नापि सिद्धस्य ; तसिद्धावेवाभावस्यापि सिद्धरेव्यतिरेकात् । व्यतिरेके हि न तस्य तद्धमत्वमसम्बन्धात् । तत्कार्यत्यं
१ मानर्माप-मा०, ०.५०। २ बहुत्वं न च-मा०, प.प० । ३ कस्थितो भावभावचदआ०,०,५०। ४-त्तायामसा-भा०,०, प० ।