________________
न्यायरिनिश्चयविवरण
[२३ बलात् साध्यस्यैव भावात् । कथमेवमप्रवृत्ताभिप्रायस्य पावकादेटिति धूमादिप्रतिपस्या साध्यत्वमिति चेत् ? न; योग्यतया तस्यापि तत्त्वाविरोधात् । अभिप्रेतमपि न सर्व साध्यम् , अपि तु सम्भवत्साधनमेवेत्याह-शक्यमिति ।
___ तदेयं विधिमुखेन साध्यं निश्चित्य तदन्यव्यवच्छेदमुग्नेनापि तदेव निश्चेतुं साध्याभासं ५ निरूपति
ततोऽपरम् । साध्या भासम् [विरुद्धादि साधनाविषयत्वतः । ॥३॥ इति ।
सुबोधमेतत् । किं तदपरमित्याह-विरुद्धादि । विविधं रुद्धं निराकृतं प्रत्यक्षादिना विरुद्धम् अनेनाशक्यमुक्तम् । न हि प्रत्यक्षादिनिराकृतं शक्यं साधयितुम् । “न तस्य हेतुभिस्त्राणमुत्पतन्नेव १० यो इतः।"
] इति न्यायात् । आदिशब्देनानभिप्रेत प्रसिद्धश्च । कुतस्तस्य न साध्यत्वमेव ! इत्याह-साधनाविषयत्वतः इति । साधनं वक्ष्यमाणं तस्याविषयत्वमगोचरत्वम् , तस्मात्त इति । तदविषयत्वञ्च निराकृतस्याशक्यस्यात् अनभिप्रेतस्यातिप्रसङ्गात् प्रसिद्धस्य च वैफल्यात् ।
. तन्त्र प्रत्यक्षनिराकृतमेकान्तक्षणक्षयादि तद्विपर्ययम्यैव प्रत्यक्षतः प्रतिपत्तेः । तस्यैव ततः प्रतिपत्तिः, तद्विपर्यये तज्जन्मनो व्यवसायस्यैव व्यापारादिति चेत् ; न : व्यवसायादन्यस्य प्रत्यक्षस्याप्रतिवेदनात् । १५ अस्त्येवेदं केवलं तदेकत्वाभिमानान्न पृथगवसीयत इति चेत् : नन्वेवं पाबकानुष्णत्वमपि न प्रत्यक्षनिराकृतं भवेत् प्रत्यक्षतस्तस्यैव परिज्ञानात् , तैद्विपर्ययेऽपि व्यवसायस्यैव व्यापारान् । :सतोऽपि तद्व्यतिरितप्रत्यक्षप्रतिवेदनस्य तदेकत्वाभिमानादेव पृथगनवसायात् । अभिमतश्चैतद् ब्रह्मविदाम्-तत्पत्वक्षस्य विधिमात्रविषयत्वेन शीतोष्णादिभेदाविषयत्वात् । तद्विषयत्वे हि निषेधविषयत्वमपि भवेत् तद्भेदस्येत
रेतराभावात्मकत्वेन निषेधात्मकत्वात् । अनवसितं तत्प्रत्यक्षं कथमस्तीति चेत् ? भवत्प्रत्यक्षमर्षि कथम् ? २० एकत्यादिविकल्पसंहारे तस्यैव निाकुलमनुभवादिति चेत् ; न ; भेदविकल्पसंहारे तस्यापि निर्व्याकु
लमनुभवात् ; तथा च श्राव्य...-"यद्वैतं न पश्यति पश्यन्वैतद्रष्टव्यं न पश्यति न हि द्रष्टदृष्टेर्विपरिलोपो विद्यते विनाशिवाय तु तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ।" । बृहदा ० ४।३।२३ ] इति ; श्राव्यत एच केवल तत्संहारो न कदाचिदपि दृश्यत इति चेत् :
न ; इतरसंहारस्याप्यदर्शनात् । ततो यथा न निर्भेदसामान्यविषयं प्रयक्षम् अपि तु भेदविषयमेव २५ तथैव प्रतीतः, तद्विरद्धत्वात् पावफानुप्णत्वं साभ्याभासम् , तथा नासाधारणस्यलक्षणविषयं तत् , अपि
ल्वनुवृत्तव्यावृत्तादिरूपजात्यन्तरगोचरमेव तथैव प्रसिद्धत्वात् , प्रसाधितल्याच्चेति तद्विरुद्धत्वादकान्तमणिकादिकमणि साध्याभासमेब । अत एवैकान्तनित्यत्वादेरपि तदाभासत्वं प्रतिपक्तव्यम् ।
तद्वदेव चानुमाननिराकृतम् , अनुमानेनापि जात्यन्तरस्यैव बहिरन्तश्च वस्तुतानिरूपणात् । एवमागमनिराकृतमपि, आगमस्यापि तद्विषयस्यैव प्रामाण्यात् तदन्यविषयस्य तम्प्रतिक्षेपात् । अनभि३० प्रेतं तु साध्याभासं पाराय॑मात्रम् , सायस्य तत्सिद्धाचप्यास्मसिद्धेरभावान् । सौगतादेरप्यनित्यत्वादिकं तत्प्रतिपत्तावप्यभीष्टस्य क्षणभङ्गादेरनिश्चयात् । प्रसिद्धं तु जैनं प्रति सौगतादेर्जात्यन्तरम् । ततः
१उगत्वे |
२ प्रत्यक्षम् |