________________
श्रीमद्भट्टाकलकदेवविरचितः न्यायविनिश्चयः स्याद्वादविद्यापतिश्रीमहादिराजमरिरचितन्यायविनिश्चयविवरणसहितः
[ द्वितीयोऽनुमानप्रस्तावः ] एतावनपाकृतविप्रतिपत्तिकतया प्रत्यक्षं प्रभेदतो निरूपितम् , इदानीं परोक्षस्य तथा निरूपणमक्सरप्राप्तमिति तत्प्रभेदमनुमान निरूपयन्नाह
साधनात्साध्यविज्ञानमनुमान तदत्यये ।
विरोधाकषिदेकस्य विधानप्रतिषेधयोः ॥ १॥ इति । स्मरणादिरपि तत्प्रभेद एव तस्य कस्मादनिरूपणमिति चेत् ! न ; तस्यापि पश्चान्निरूपणात् । ५ पूर्वमेव तस्य निरूपणमुपपन्नम् , स्मरणादिक्रमेण तत्प्रभेदस्य सूत्रे' निर्देशात्-"स्मृतिः सञ्ज्ञा चिन्ताभिनियोधः" [त० सू० १।१३ ! इति, निर्देशानुरूपत्वाच - निरूपणस्येति चेत् ; सल्यमिदम् : तथापि प्राधान्यादनुमानस्य तदेवात्र प्रथमं निरूप्यते | कथं प्राधान्यमिति चेत् ? उच्यते, शास्त्रमिदं प्रवचनप्रामाण्यनिरूपणपरम् 'बालानाम्' इत्यादिना शास्त्रारम्भे तथैव प्रतिपादनान् । तत्प्रामाण्यञ्च प्रत्यक्षानुमेयात्यन्तपरोक्षविषयम् । 'तत्र प्रत्यक्षविषये तदविसंवादात् तत्प्रामाण्यनिवेदनार्थ प्रत्यक्ष निरूपितम् । १० तथा प्रवचनमत्यन्तपरोक्षे तंत एव तदर्थं निरूपयिष्यते । परिशिष्टमनुमेयं तत्र च प्रधानमनुमानमेव तदविसंवादादेव तत्र तत्प्रामाण्यनिर्णयात् , ततस्तदेवात्र प्रथमं निरूप्यते । तन्निर्णयानुपयोगिनः स्मरणादेः पश्चादषि किमर्थं निरूपणमिति चेत् ? अनुमान(नार्थ)मेवेति ब्रूमः । न अनुभानं तन्निरपेक्षमुत्यत्तुमर्हति । निवेदयिष्यते चैतत् पश्चादेव । शास्त्रान्तरे तहिं कथं स्मरणादेः पूर्व निरूपणं कृतमिति चेत् ? न; तत्रापरतभेदापेझस्य तत्प्राधान्यस्य विवक्षितत्वात् । तदपि तस्य तत्प्रामाण्यनिर्णय प्रति न प्रत्यक्षादिक्त् १५ साक्षादुपयोगात् अपि तु पारम्पर्येण । अत एव कथञ्चित्तदुपयोगिन एव परोक्ष मेदस्य शास्त्रे निरूपणं नापरस्य । न ह्यपरस्तभेदो नास्त्येव सम्भवैतिधप्रतिभादेरनेकपकारस्य तस्योपलम्भादित्यलं प्रसङ्गेन ।
प्रकृतं व्याचश्महे-साधनं साध्याविनाभावनियमनिर्णयैकलक्षणं वक्ष्यमाणं लिङ्गम् , तस्मात् । साध्यस्य वक्ष्यमाणलक्षणस्यैव यद् विज्ञानम् । तद् अनु व्यातिनिर्णयस्य पश्चादावि मानम् अनुमानम् ।
स्मृतिः स्मृतिः संशा चिन्ताऽमिनिबोध इत्यतर्थान्तरम् ।" इति सूत्रे । २ दलो० २।३ प्रवचनप्रामाण्यञ्च | ४ सत्त-भार०,पः। ५"प्रवचनाविसंवादात् । पूर्वापराविरोध एव प्रवचनस्य प्रवचनाविसंवादः । उक्तश्चाशाध:-ऽऽध्यक्षतो वाक्यमनुमेयेऽनुमानलः । पूर्वापराविरोधेन परोक्षे च प्रमाणतामिति ।"-बाटि ६प्रवचनप्रामाण्यनिर्णयानुपयोगिनः । ७स्मरणादिमिरपेक्षम् ।