________________
२।१७३ ]
अनुमानप्रस्तावः
२०१
हेत्वन्तरत्वात् । भवतु स्वभाव एव कृत्तिकोदयातिरपीति चेत्, न; धमादेरपि तत्त्वप्रसङ्गमात्, अविनाभावस्य तद्ययस्थाहेतोः तत्रापि भावात् । भेदप्रतिभासाचेति चेत्, तदुभयादेरपि न भवेदविशेषादिति सूक्तम्-'शेषत्रत्' इति । तद्वद् अन्योऽपि कृत्तिकोदयादेरपरोऽपि 'पक्ष्यादिरपि गमकः प्रत्यायकः साध्यस्य । कीदृशः ? सुपरीक्षितः सुष्टु साध्यनिष्ठानियमवत्वेन परीक्षितः तःण विचारित इति । अस्ति ह्याकाशे पक्षिदर्शनात् अधः छायामण्डलस्य, तद्दर्शनाचोपरि पक्षिणः प्रतिपत्तिः । न सत्र कार्यत्वम् । ५ तुल्यकालत्वात् । न स्वभावत्वम् ; भिन्नदेशवात् । परीक्षया तु अविनाभावाद् गमकत्वमतो न तन्नियमः । सत्यम्यत्र कार्यादित्वे न तद्व्यवस्थिति: पक्षधर्मस्ववैकल्येन तद्वतोऽस्य भेदात्, न छत्र पक्षिणः पक्षधर्मत्वम् ; भूप्रदेशे तस्यासम्भवात् । तस्य हि पक्षत्वं छायावत्वेन साधनात् । नापि तन्मण्डलस्य; आकाशे तस्याभावात् । न च भूप्रदेशाकाशसमुदायस्य पक्षत्वम् ; तत्रं हि अत्रेति निर्देशः स्यात् साध्यस्य न पुनर्यत्र लिङ्ग तत ऊर्ध्वमधस्तादेति । तथैव च तस्पतिपत्तिदृश्यत इति ।
साम्प्रतं नैयायिकादिकल्पितमपि तन्नियममतिदेशेन विधुरयन्नाइ--
एतेन पूर्वववीतसंयोग्यादी कथा गता ।।१७३। इति ।
पूर्यवद्वीतसंयोगिशब्दानामादिशब्देन बहुव्रीहिः । तस्य च प्रत्येकममिसम्बन्धात् पूर्ववदादिः वीतादिः संयोग्यादिरितिः भवति । तत्राद्येन शेषवत्-सामान्यतोदृष्टयोः, द्वितीयेन अवीतचीताबीतयोः, तृतीयेन समवाय्ये कार्यसमवाय्य (यि) विरोधिनामबरोधः, तस्मिन् पूर्ववद्वीतसंयोग्यादौ १५ या कथा हेतुत्वनियमान्वाख्यान सापि एतेन पूर्वोक्तेन न्यायेन गता निवृत्त । नवं नियमः'पूर्वबदादिरूपेण त्रिविधमेवानुमानम्' इति; अधिकस्यापि कस्यचिद्भावात् । तथा हि--पूर्ववदिति कारणात् कार्यस्यानुमानम् , पूर्व कारणमस्यास्तीति व्युत्पत्तेः । शेषयनिति कार्यात् कारणस्य, कार्यस्यैवोषयुक्तकारणादन्यतया शेष शब्देनाभिधानात् । सामान्यतोदृष्टमिति चाकार्यकारणादकार्याकारणस्य । न च 'अस्त्यात्मा उपलब्धेः' इत्यादि सत्तासाधनम् एतेषामन्यतममपि; सामान्यतोदृष्टे ऽपि तस्यापक्षधर्म- २० स्वादित्वेनानन्तर्भावात् । तद्गमकत्वस्य च समर्थितत्वात् ।
किञ्च, पूर्ववदादर्गमकत्वं त्रैरूप्यात, पाचरूप्याद्वा, तदन्यतरत्रैवाविनाभावपर्यवसानादिति स्वयमभ्युपगमात् । तथा च यदेतत् पूर्ववतो भाप्यकारेणोदाहरणमुक्तम्-"मेघोन्नत्या भविष्यति वृष्टिः" [ न्यायभा० १।१।५] इति, तरकथं गमकम् अपक्षधर्मत्वात् ! नपत्र वृष्टः पक्षत्वम् असिद्धः, सिद्धी चानुमानवैफल्यात् । मेघस्य च सिद्धत्वे ऽपि न पक्षत्वम् ,असाध्याधिकरणत्वात् । न हि वृष्टेस्तदधिक- २५ रणत्वं भायित्वात् । यत् पुनरत्र विश्वरूपेण समाधानमुक्तम्- "कारणस्यैव मेघादेः सिद्धत्वात घर्मित्वं तदृष्ट्युत्पादकत्वं साध्यो धर्मः उन्नतत्वादिना तद्धर्मेणेवानुमीयते ।" [ ] इति; तम्म सम्यक् ; न सेवमपि कारणे पक्षधर्मत्वस्यावस्थापनमपि तु तद्धर्म एवोन्नतत्वादौ ।
१ पक्षादिरपि प्रा०, २०, ५० । २ ऋषिध्यनियमः । ३ तस्य प्रत्यक्षं छा- आ०, ब०, प० । भूप्रदेशस्य । ४ -स्य सप-आ०,य, प..1५ न हि तत्रि ५०६ -ति प्रभ-प०।७ समवायधिप०।८-मित्यादिकस्या-आ०, ब०, प015 द्रष्टव्यम्-न्यायभान्यायवा, न्यायवा० सा०शश। १० शेषवस्तेनाभि-आ, य०, प.!