________________
१०८
न्याय - दीपिका
अनुमानस्य तावन्मात्रा! पेक्षत्वात् । ततो यो यो घूमदानसावसावग्निमान् यथा महानस इत्येवं सम्यग्दृष्टान्तवचनं वक्तव्यम् । विपरीतवचनं तु दृष्टान्ताभास एवेत्ययमसम्यग्वचन रूपोऽन्वयदृष्टान्ताभासः । व्यतिरेकव्याप्ती तु व्यापकस्याग्नेरभावो व्याप्यः, व्याप्यस्य धूमस्याभावो व्यापकः । तथा सति यत्र यत्राजन्यभावस्तत्र तत्र धूमाभावो यथा ह्रद इत्येवं वक्तव्यम् । विपरीतकथनं तु, असम्यग्वचनत्वादुदाहरणाभास एव । 'अदृष्टान्तवचनं2 तु, अन्वयव्याप्ती व्यतिरेकदृष्टान्तवचनम्, व्यतिरेकव्याप्तावन्दयहृष्टान्तवचनं च, उदाहरणाभासौ | स्पष्टमुदाहरणम् ।
६ ६९. नतु गर्भस्थो मैत्रीतनयः 3 श्यामः, मैत्रीतनयत्वात्, साम्प्रत मैत्रीतनयवत् इत्याद्यनुमानप्रयोगे पञ्चसु मंत्रीतनयेष्यन्वयदृष्टान्तेषु यत्र यत्र मैत्रीतनयत्वं तत्र तत्र श्यामत्वम् इत्यन्वयव्याप्तेः, व्यतिरेकदृष्टान्तेषु गौरेष्वमंत्रीतनयेषु सर्वत्र 'यत्र यत्र
१ पर्वतो वह्निमान् धूमात्' इत्यनुमाने वह्निसामान्यस्यापेक्षणात्, न तु वह्निविशेषस्य । नातो कश्चिद्दोष इति भावः । २ प्रन्वयदृष्टान्ताभासो द्विविधः – दृष्टान्तस्यासम्यग्वचनमदृष्टान्तस्य सम्यग्वचनं च तत्रायमाद्यः ॥ ३ अन्वयदृष्टान्ताभासस्य ( उदाहरणाभासस्य ) द्वितीयभेदमदृष्टान्तस्य सम्यग्वचनाख्यं दर्शयति प्रवृष्टान्तेति । ४ अनयोरुदाहरणाभासयोरुदाहरणं स्पष्टमेवेत्यर्थः ।
1 'अनुमातुस्तावन्मात्रा' इति म मु पाठः । 2 मु 'प्रदृष्टान्तवचनं' नास्ति । तत्र त्रुटितोऽयं पाठः । 3 मु 'मंत्रीतनयः' नास्ति । 4 प 'सम्मत '
पाठ: ।