________________
२. प्रत्यक्ष प्रकाश:
२७
स्वसंवेदनस्य विषयाजन्यत्वेऽपि प्रामाण्याभ्युपगमात् । न हि किञ्चित्स्वस्मादेव जायते ।
$ ५. 'नन्वतज्जन्यस्य ज्ञानस्य । कथं 'तत्प्रकाशकत्वम् ? इति येत्; 'घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्ट्वा सन्तोष्टव्यमायुष्मता' । अथ कथमयं विषयप्रतिनियम:' ? यदुत 'घटज्ञानस्य घट एव विषयो न पट:' इति । श्रर्थजत्वं हि विषयप्रतिनियमकारणम्. तज्जन्यत्वात् तद्विषयमेव चैतदिति । तत्तु भवता नाऽभ्युपगम्यते इति चेत्; योग्यतैव विजयप्रतिनियमकारयमिति ब्रूमः । का नाम योग्यता ? इति2 1 उच्यते-- स्वावरणक्षयोपशमः । तदुक्तम् — "स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थ व्यवस्थापयति परीक्षा० २-६] इति ।
१०
१ बोर्द्धः २ २ अत्र वौद्धः पुनराशङ्कते नन्विति । ३ श्रयं भावः - -यदि ज्ञानं अर्थान्नोत्पद्यते तह कथमयं प्रकाशकं स्यात् ? तदेव हि ज्ञानमर्थप्रकाशकं यदर्थजन्यम्, प्रजन्यत्वे तु तस्यार्थो विषयो न स्यात् 'नाकारणं * विषय:' इति वचनात् ४ उत्तरयति - घटाद्यजन्योऽपि हि यथा प्रदीपः घटादिप्रकाशको भवति तथा ज्ञानमप्यर्याजन्यं सत् प्रर्थप्रकाशक मित किमनुपपन्नम् ? अर्थस्य जानकारणत्वनिरासस्तु पूर्वमेव कृतस्ततो नात्र किञ्चिद्वचनीयमस्ति । ५ सन्तोषः करणीयो भवता । ६ अमुकज्ञानस्य अमुक एक विषयो नान्य इति विषयप्रतिनियमः, स न स्याद्यदि ज्ञानस्यार्थ - जन्यत्वं नो भवेदिति शङ्काया माशयः ७ अर्थजन्यत्वम् | जैनेन । ६ जैना: । १० प्रतिनियतार्थव्यवस्थापको हि तत्तदावरणक्षयोपशमोऽयंग्रहणशक्तिरूपः । तदुक्तम् -- 'तल्लक्षणयोग्यता च शक्तिरेव । संव ज्ञानस्य 1 आप भु प्रतिषु 'अन्यस्य' इति पाठः । 2 व प्रतौ 'इति' पाठो नास्ति :