________________
जातिः कुलं वनं प्रचारश्च वनहस्तिनां प्रधानं किं तु शरीरं बलं शौर्य शिक्षा च तदुचिता च सामग्री संपत्तिः ॥४॥ अशिक्षिता हस्तिनः केवलमर्थप्राणहराः ।।५।। सुखेन यानमात्मरक्षा परपुरावमदनमरिव्यूहविघातो जलेषु सेतुबन्धो वचनादन्यत्र सर्वविनोदहेतवश्चेति हस्तिगुणाः ॥६|| अश्वबलं सैन्यस्य जंगमं प्रकारः ।।७।। अश्वबलप्रधानस्य हि राज्ञः कदनकन्दुकक्रीडाः प्रसोदन्ति श्रियः, भवन्ति दूरस्था अपि शत्रवः करस्थाः । आपत्सु सर्वमनोरथसिद्धिस्तुरंगे एव, सरणमपसरणमवस्कन्दः परानोकभेदनं च तुरङ्गमसाध्यमेतत् ॥4॥ जात्यारूढो विजिगोषु: शत्रोभवति तत्तस्य गमनं नारातिर्ददाति ॥२॥ जिका, ( स्व) स्थलाणा करोखरा गाजिगाणा केकाणा पुष्टाहारा गव्हारा सादुयारा सिन्धुपारी जात्याश्वानां नवोत्पत्तिस्थानानि ॥१०॥ समा भूमिधनुर्वेदविदो रथारूढाः प्रहर्तारो यदा तदा किमसाध्यं नाम नृपाणाम् ॥११॥ स्थैरवमदितं परबलं सुखेन जोगते पोल भृत्यम्भूत्यशेगोमिन विकेट पूर्व पूर्व बलं यतेत् ॥१२॥ अथान्यत्सप्तममोत्साहिक बलं यद्विजिगोषोविजययात्राकाले परराष्ट्रविलोहनार्थमेव मिलति क्षत्रसारत्वं शस्त्रज्ञत्वं शौर्यसारत्वमनुरक्तत्वं चेत्यौत्साहिकस्य गुणाः ॥१३॥ मौलबलाविरोधेनान्यबलमर्थमानाभ्यामनुगृह्णीयात् ॥१४॥ मौलाख्यमापद्यनुगच्छति दण्डितमपि न द्रुह्यति भवति चापरेषाममेद्यम् ॥१५॥ न तथार्थः पुरुषान् योधयति यथा स्वामिसमानः ॥१६॥ स्वयमनवेक्षणं देयांशहरणं कालयापना व्यसनाप्रतोकारो विशेषविद्यावसंभावनं च तन्त्रस्य विरक्तिकारणानि ।।१७।। स्वयमवेक्षणीयसैन्य परैरवेक्षयन्नर्थतन्त्राभ्यां परिहीयते ॥१८॥ आश्रितभरणे स्वामिसेवार्या धर्मानुष्ठाने पुत्रोत्पादने च खलु न सन्ति प्रतिहस्ताः ॥१२॥ तावदेयं यावदाश्रिताः संपूर्णतामाप्नुवन्ति ॥२०॥ न हि स्वं द्रव्यमव्ययमानों राजा दण्डनीयः ॥२२॥ को नाम सचेताः स्वगडं चौर्यारखादेत ॥२२॥ कि तेन जलदेन यः काले न वर्षेति ॥२॥ स कि स्वामो य आश्रितेषु व्यसने न प्रविधत्ते ॥२४॥
अविशेषज्ञे राजि को नाम तस्यार्थे प्राणव्यये नोत्सहेत ॥२५।। मोतिवाक्यामृत का भूल सूत्र-पाठ
२.