SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अन्योऽन्यरक्षकः खन्याकरद्रव्यना धनवान् नातिवृद्धना तिहीनग्रामो बहुसारविचित्रधान्यहिरण्यपण्योत्पत्ति र देवमातृकः पशुमनुष्यहितः श्रेणिशूद्रकर्षकप्राय इति जय गुषाः क्षी विषतृणोदकोषरपाषाणकण्टक गिरिगसँग रप्रायभूमिभूविर्षा जीवनो व्याललुब्ध कम्लेच्छबहुलः स्वल्प सस्योत्पत्तिस्तरुफलाधार इति देशदोषाः ॥९॥ तत्र सदा दुर्भिक्षमेव यत्र जलदजलेन सस्योत्पत्तिरकृष्टभूमिश्चारम्भः ||१०|| क्षत्रियप्राया हि ग्रामाः स्वल्पास्वपि बाधासु प्रतियुद्ध्यन्ते ॥ ११॥ म्रियमाणोऽपि द्विजलोको न खलु सान्त्वेन सिद्धमप्यर्थं प्रयच्छति ||१२| स्वभूमिकं भुक्तपूर्वमभुक्तं वा जनपदं स्वदेशाभिमुखं दानमानाभ्यां परदेशा - दावहेतु वासयेच्च ॥१३॥ 1 स्वल्पोऽप्यादायेषु प्रजोपद्रवो महान्तमर्थं नाशयति ॥ १४॥ क्षीरिषु कणिशेषु सिद्धादायो जनपदमुडासयति ||१५| लवनकाले सेनाप्रचारो दुर्भिक्षमावहति ||१६|| सर्वबाधा प्रजानां काशं पीडयति ॥ १७॥ दत्तू परिहारमनुगृह्णीयात् ||१८|| मर्यादातिक्रमेण फलवत्यपि भूमिर्भवत्यरण्यानी ॥ १९ ॥ क्षीणजन संभावनं तृणशलाकाया अपि स्वयमग्रहः कदाचित्किचिदुपजीवनमिति परमः प्रजानां वर्धनोपायः ||२०|| न्यायेन रक्षिता पण्यपुटमेदिनो पिण्डा राज्ञां कामधेनुः ॥२१॥ राज्ञां चतुरङ्गबलाभिवृद्धये भूयांसो भक्तग्रामाः ॥२२॥ सुमहच्च गोमण्डलं हिरण्याय युक्तं शुल्कं कोशवृद्धिहेतुः ||२३|| देवद्विजप्रदेया गांहृतप्रमाणा भूमितुरादातुश्च सुखनिर्वाहा ||२४|| क्षेत्रवप्रखण्डधर्मायतनानामुत्तरः पूर्व बाधते न पुनरुत्तरं पूर्वः ॥२५॥ २०. दुर्गसमुद्देशः यस्याभियोगात्परे दुःखं गच्छन्ति दुर्जनोद्योगविषया वा स्वस्यापदो गमयतीति दुर्गम् ||१|| तद्विविधं स्वाभाविकमाहार्य च ॥२॥ वैषम्यं पर्याप्तान्रकाशो यवसेन्धनोदक भूयस्त्वं स्वस्य परेषामभावो बहुधान्यरससंग्रहः प्रवेशापसारौ वीरपुरुषा इति दुर्गसंपत् अन्यह्नन्दिशालावत् ||३|| अदुर्गो देशः कस्य नाम न परिभवास्पदम् ||४|| अदुर्गस्य राज्ञः पयोधिमध्ये पोतच्युतपक्षिवदापदि नास्त्याश्रयः ॥१५॥ नीतिवाक्यामृत का मूल सूध-पाठ २१९
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy