________________
नापीडिता नियोगिनो दुष्टवणा इवान्तःसारमुद्रमन्ति ॥५६॥ पुनः पुनरभियोगें नियोगिषु भूपतीनां वसुधाराः १५७॥ सन्निष्पीडितं हि स्नानवस्त्रं किं जहाति स्निग्धताम् ॥१८॥ देशमपोडयन् बुद्धिपुरुषकाराभ्यां पूर्वनिबन्धधिकं कुर्वन्नर्थमानो लभते ।।५९॥ यो यत्र कर्मणि कुशलस्तं तत्र विनियोजयेत् ॥६०|| न खलु स्वामिप्रसादः सेवकेषु कार्यसिद्धिनिबन्धनं किं तु बुद्धिपुरुषकारावेव ।।६१॥ शास्त्रविदप्यदृष्टकर्मा कर्मसु विषादं गच्छेत् ।।६।। अनिवेद्यभर्तन किचिदारम्भं कुर्यादन्यत्रापत्प्रतीकारेभ्यः ॥६॥ सहसोपचितार्थो मूलधनमात्रेणावशेषयितव्यः ।।६४॥ मूलधनाद् द्विगुणाधिको लाभो भाण्डोत्यो यो भवति स राज्ञः ॥६५॥ परस्परकलहो नियोगिषु भूभुजां निधिः ॥६॥ नियोगिषु लक्ष्मीः क्षितीश्वराणां द्वितीयः कोशः ॥६७६ सर्बसंग्रहेषु धान्यसंग्रहो महान्, यतस्तनिबन्धनं जीवितं सकलनयासश्च ॥६८॥ न खल मखे प्रक्षिप्तः खरोऽपि दम्भः प्राणप्राणाय यथा धान्यम् ।।६९|| सर्वधान्येषु चिरजोविनः कोद्रवाः ।।७०॥ अनबं नवेन वर्द्धयितव्यं व्ययितव्यं च ७१।। लवणसंग्रहः सर्वरसानामुत्तमः ।।७२।। सर्वरसमयमप्यन्नमलवणं गोमयायते ॥७३॥
१९. जनपदसमुद्देशः
पशुधान्यहिरण्यसंपदा राजते इति राष्ट्रम् ॥१॥ भर्तुर्दण्डकोशवृद्धि दिशतीति देशः ॥२॥ विविधवस्तुप्रदानेन स्वामिनः सनि गजान् वाजिनश्च विषिणोति बघ्ना-- तोति विषयः ॥३॥ सर्वकामधुक्त्वेन नरपतिहृदयं मण्डयति भूषयतोति मण्डलम् ॥४॥ जनस्य वर्णाश्रमलक्षणस्य द्रव्योत्पत्तेर्वा पदं स्थानमिति जनपदः ॥५॥ निजपतेरुत्कर्षजनकत्वेन शत्रुहृदयानि दारयति भिनत्तीति दारकम् ।।६।। आत्मसमृद्ध्या स्वामिनं सर्वव्यसनेभ्यो निर्गमयतीति निर्गमः ।
नोतियाफ्यामृत में राजनीति
२१८