________________
परंतु भाग्यानां व्यापारः ॥५८।। सा खलु विद्या विदुषां कामधेनुर्यतो भवति समस्तजगत्स्थितिज्ञानम् ॥१९॥ लोकव्यवहारज्ञो हि सर्वज्ञोऽन्यस्तु प्राज्ञोऽप्यवज्ञायक एव ॥३०॥ ते खलु प्रज्ञापारमिताः पुरुषा ये कुर्वन्ति परेषां प्रतिबोधनम् ॥६१॥ अनुपयोगिना महतापि कि जलधिजलेन ॥६२।।
१८. अमात्यसमुद्देशः
चतुरङ्गेऽस्ति द्यूते नानमात्योऽपि राजा किं पुनरत्यः ॥१॥ नकस्य कार्यसिद्धिरस्ति ॥२॥ नोकं चक्रं परिभ्रमति ॥३॥ किमवातः सेन्धनोऽपि वह्निज्वलति ॥४॥ स्वकर्मोत्कर्षापकर्षयोनिमानाभ्यां सहोत्पत्तिविपत्ती येषां तेऽमात्याः ॥५॥ आयो ध्ययः स्वामिरक्षा तन्त्रपोषणं चामात्यानामधिकारः ॥६॥ आयव्ययमुखयोमुनिकमण्डलुनिदर्शनम् ॥७॥ आयो द्रव्यस्योत्पत्तिमुखम् ॥८॥ यथास्वामिशासनमर्थस्य विनियोगो व्ययः ।।९।। आयमनालोच्य व्ययमानो वैश्रवणोऽप्यवश्यं श्रमणायते ॥१०॥ राज्ञः शरीरं धर्मः कल अपत्यानि च स्वामिशब्दार्थः ॥११॥ तन्त्रं चतुरङ्गबलम् ॥१२॥ तीक्ष्णं बलवत्पक्षमशुचि व्यसनिनमशुद्धाभिजनमशक्यप्रत्यावर्तनमत्तिव्ययशीलमन्यदेशायातमतिचिक्कणं चामात्यं न कुर्दीत ॥१३॥ तीक्ष्णोऽभियुक्तो नियते मारयति वा स्वामिनम् ॥१४॥ बलवत्पक्षो नियोगाभियुक्तः कल्लोल इव समूलं नृपानिपमुन्मूलयति ॥१५॥ अल्पायतिमहान्ययो भक्षयति राजार्थम् ॥१६॥ अल्पायमुखो जनपदपरिग्रही पीडयति ॥१७॥ नागन्तुकेष्वर्थाधिकारः प्राणाऽधिकारो वास्ति यतस्ते स्थित्वापि गन्तारोऽपकर्तारो वा ॥१८॥ स्वदेशजेष्वर्थ: कूपपतित इव कालान्तरादपि लब्धुं शक्यते ॥१९॥ चिक्कणादर्थलाभः पाषाणाद्वल्कलोत्पाटनमिव ॥२०॥ सोऽधिकारी यः स्वामिना सति दोषे सुखेन निगृहीतुं शक्यते ॥२१॥ अाह्मण-क्षत्रिय-संबन्धिनो न कुर्यादधिकारिणः ।।२२।। ब्राह्मणो जातिदशात्सिद्धमप्यर्थ कृच्छेण प्रयच्छति, न प्रयच्छति वा ॥२३॥ क्षत्रियोऽभियुक्त: खड्गं दर्शयति ॥२४॥
नीतिवाक्यामृत में राजनीति