________________
अलसाश्च रसदाः ॥३७॥ जडमूकबधिरान्धाः प्रसिद्धाः ॥३८॥
१५. विचारसमुद्देशः
नाविचार्य कार्य किमपि कुर्यात् ॥१॥ प्रत्यक्षानुमानागमैर्यथावस्थितवस्तुव्यवस्थापनहेर्विचारः ॥२॥ स्वयं दृष्ट प्रत्यक्षम् ॥३॥ न ज्ञानमात्रत्वात् प्रेक्षावतां प्रवृत्तिनिवृत्तिर्वा ॥४॥ स्वयं दृष्टेऽपि मतिबिमुह्यति संशेते विपर्यस्यति वा कि पुनर्न परोपदिष्टे वस्तुनि ॥५॥ स खलु विचारतो यः प्रत्यक्षेणोपलब्धमपि साधु परीक्ष्यानुतिष्ठति ॥६॥ अतिरभसात् कृतानि कार्याणि किं नामान न जनयन्ति ॥७॥ अविचार्य कृते कर्मणि यत् पश्चात् प्रतिबिधान गतोदके सेतुबन्धनमिव ।।८।। आकारः शौर्यमायतिविनयश्च राजपुत्राणां भाविनो राज्यस्य लिङ्गानि ॥९॥ कर्मसु कृतेनाकृतावेक्षणमनुमानम् ॥१०॥ संभावितैकदेशो नियुक्तं विद्यात् ।।१।। प्रकृतेविकृतिदर्शनं हि प्राणिनां भविष्यतः शुभाशुभस्य चापि लिङ्गम् ।।१२।। य एकस्मिन् कर्मणि दृष्टबुद्धि: पुरुषकारः स कथं कर्मान्तरेषु न समर्थः ।।१३॥ आसपुरुषोपदेश आगमः ॥१४॥ यथानुभूतानुमितश्रुतार्थाविसंवादिवचनः पुमानाप्तः ॥१५॥ सा वागुक्ताप्यनुक्समा, यत्र नास्ति सद्युक्तिः ॥१६॥ वक्तुर्गुणगौरवाद् वचनगौरवम् ॥१७॥ कि मितंपचेषु धनेन चाण्डालसरसि वा जलेन यत्र सत्तामनुपभोगः ॥१८॥ लोको गतानुगतिको यतः सदुपदेशिनीमपि कुटिनों तथा न प्रमाणयति यथा गोनमपि ब्राह्मणम् ॥१९॥
१६. व्यसनसमुद्देशः
व्यस्यति पुरुषं श्रेयसः इति व्यसनम् ॥१॥ व्यसन द्विविधं सहजमाहार्य च ॥२॥ सहज व्यसन धर्माभ्युदयहेतुभिरधर्मजनितमहाप्रत्यवायप्रतिपादनस्पाख्यान । ोगपुरुषश्च प्रशमं नयेत् ||३|| परिचित्तानुकूल्येन तदभिलषितेपूपायेन विरतिजननहेतवो योगपुरुषाः ॥४॥
नीतिवाक्यामृत में राजनीति
१५