________________
५
भोज्येऽसंमतोऽपि हि सुलभो लोकः ॥११॥
किं तस्य भक्त्या यो न वेत्ति स्वामिनो हितोपायमहितप्रतीकारं बा ||१२|| किं तेन सहायेनास्त्रज्ञेन मन्त्रिणा यस्यात्मरक्षणेऽप्यस्त्रं न प्रभवति ||१३|| धर्मार्थं कामभयेषु व्याजेन परचित्तपरीक्षणमुपधा ॥१४॥ अकुलीनेषु नास्त्यपवादाद्भयम् ||१५|| अर्कविषयत् कालं प्राप्य विकुर्वते विजातयः || १६॥ तद सस्य विषत्वं यः कुलीनेषु दोषसंभवः ||१७| घटप्रदीपवत्तज्ज्ञानं मन्त्रिणो यत्र न परप्रतिबोधः ||१८|| तेषां शस्त्रमिव शास्त्रमपि निष्फलं येषां प्रतिपक्षदर्शनाद्भयमन्त्रयन्ति
चेतांसि || १९||
तच्छस्त्रं शास्त्रं वात्मपरिभवाय यश हन्ति परेषां प्रसरम् ॥२०॥ न हि गली बलीवर्दो भारकर्मणि केनापि युज्यते ॥ २१ ॥ मन्त्रपूर्वः सर्वोऽप्यारम्भः क्षितिपतीनाम् ||२२||
अनुपलब्धस्य ज्ञानसुपलचिने चिनिय बलाधानमर्थस्य द्वैस्य संयच्छेदनमेकदेशलब्धस्याशेषोपलब्धिरिति मन्त्रसाध्यमेतत् ॥ २३॥ अकृतारम्भमारब्धस्याप्यनुष्ठानमनुष्ठितविशेषं विनियोगसंपदं च ये कुर्युस्ते
मन्त्रिणः ||२४||
कर्मणामारम्भोपायः पुरुषद्रव्यसंपद्देशकालविभागो विनिपास प्रतीकार: कार्यसिद्धिश्चेति पञ्चाङ्गो मन्त्रः ||२५||
आकाशे प्रतिशब्दवति चाश्रये मन्त्रं न कुर्यात् || २६ज्ञा मुखविकारकराभिनयाभ्यां प्रतिध्वानेन वा मनः स्थमप्यर्थमभ्यूह्यन्शि विचक्षणाः ||२७||
፡
आ कार्यंसिद्धे रक्षितव्यो मन्त्रः ||२८||
faar aai aviक्ष्य मन्त्रयमाणस्याभिमत: प्रच्छन्नो वा भिनत्ति मन्त्रम् ||२२||
श्रूयते किल रजन्यां वटवृक्षे प्रच्छतो वररुचि-र-प्र-शि-खेति पिशाचेभ्यो वृत्तान्तमुपश्रुत्य चतुरक्षरार्थः पादैः श्लोकमेकं चकारेति ||३०|| न तैः सह मन्त्रं कुर्यात् येषां पक्षीयेष्वपकुर्यात् ॥३१॥ अनायुक्तो मन्त्रकाले न तिष्ठेत् ||३२||
तथा च श्रूयते शुकसारिकाभ्यामन्यंश्च तिर्यग्भिर्मन्त्रभेदः कृतः ॥३३॥ मन्त्रभेदादुत्पन्नं व्यसनं दुष्प्रतिविधेयं स्यात् ॥ ३४॥
इङ्गिताकारी मदः प्रमादो निद्रा च मन्त्रभेदकारणानि ||३५|| इङ्गितमन्यथावृत्तिः ||३६||
कोपप्रसादजनिता शारीरी विकृतिराकारः ॥३७॥
Rot
नीतिवाक्यामृत में राजनीति