________________
प्रतापवति राज्ञि निष्ठुरे सति न भवन्ति राष्ट्रकण्टकाः ॥२२|| अन्यायवृद्धितो वार्द्धषिकास्तन्त्रं देशं च नाशयन्ति ॥२३॥ कार्याकार्ययोनास्ति दाक्षिण्ये वाषिकानाम् ॥२४॥ अप्रियमप्यौषधं पीयते ॥२५॥ अहिदष्टा स्वागुलिरपि छिद्यते ||२६||
दण्जनीतिसमुद्देशः चिकित्सागम इव दोषविशुद्धिहेतुर्दण्ड: ||१|| यथादोषं दण्डप्रणयनं दण्डनीतिः ॥शा प्रजापालनाय राज्ञा दण्डः प्रणीयते न धनार्थम् ॥३।। स किं राजा वैद्यो वा यः स्वजीवनाय प्रजासु दोषमन्वेषयति ॥४t] दण्ड चूत मृत विस्मृत चोर पारदारिक प्रजाविप्लवजानि द्रव्याणि न राजा स्वयमुपपुरूजोत ॥५॥ दुष्प्रणोतो हि दण्डः कामक्रोधाभ्यामज्ञानाद्वा सर्वविद्वेषं करोति ।।६।। अप्रणीतो हि दण्डो मात्स्यन्यायमुत्पादयति, बलायानबलं असति इति मात्स्यन्यायः ॥७॥
१०. मन्त्रिसमुद्देशः
मन्त्रिपुरोहितसेनापतीनां यो युक्तमुक्तं करोति स आहार्यबुद्धिः ।।१।। असुगन्धमपि सूत्रं कुसुमसंयोगात् किनारोहति देवशिरसि ।।२।। महद्भिः पुरुषः प्रतिष्ठितोऽश्मापि भवति देवः किं पुनर्मनुष्यः ॥३॥ तथा चानुश्रूयते विष्णुगुप्तानुग्रहादनधिकृतोऽपि किल चन्द्रगुप्तः साम्राज्यपदमवापेति ॥४॥ ब्राह्मणक्षत्रियविशामेकतम स्वदेशजमाचाराभिजनविशुद्धमव्यसनिनमव्यभिचारिणमधीताखिलव्यवहारतन्त्रमस्त्रज्ञमशेषोपाधिविशुद्धं च मन्त्रिणं कुर्वीत ॥५॥ समस्तपक्षपातेषु स्वदेशपक्षपातो महान् ।।६।। विनिषेक इव दुराचारः सर्वान् गुणान् दुषयति ।।७।। दुष्परिजनो मोहेन कुतोऽप्यपकृत्य न जुगुप्सते 1॥८ सव्यसनसचिवो राजारूढब्यालगज इव नासुलभोऽपायः ॥५॥ कि तेन केनापि यो विपदि नोपतिष्ठते ॥१॥
भौतिवाक्यामृत का मूल सूत्र-पास
२०१