________________
श्रवणमाकर्णनम् ॥४७॥ ग्रहणं शास्त्रार्थोपादानं ।।४८॥ धारणमविस्मरणम् ॥४॥ मोहसंदेहविपर्यासन्युदासेन ज्ञान विज्ञानम् ॥५०॥ विज्ञातमर्थमवलम्ब्यान्येषु व्याप्त्या तथाविवितर्कणमूहः ।।५।। उक्तियुक्तिभ्यां विरुद्धादर्थात् प्रत्यवायसंभावनया व्यावर्तनमपोहः ।।५२सा अथवा ज्ञानसामान्यमूहो ज्ञानविशेषोऽपोहः ।।५३|| विज्ञानोहापोहानुगविशुद्धमिदमित्यमेवेति निश्चयस्तत्त्वाभिनिवेशः ।।१४।। याः समधिगम्यात्मनो हितमवत्यहितं चापोहति ता विद्याः ।।५।। आन्वीक्षिकी अयो वार्ता दण्डनीतिरिति चतस्रो राजविद्याः ।।५।। अधीयानो ह्यान्वीक्षिकों कार्याकार्याणां बलाबलं हेतुभिर्विचारयति व्यसनेषु न विषोदति नाभ्युदयेन विकार्यते समधिगच्छति प्रज्ञावाक्यवैशारद्यम् ॥१७॥ त्रयों पठन् वर्णाश्रमाचारेवतोब प्रगल्भते जानाति च समस्तामपि धर्माधर्मस्थितिम् ।।५८॥ युक्तितः प्रवर्तयन् वार्ता सर्वमपि जीवलोकमभिनन्दयति लभते च स्वयं सर्वानपि कामान् ।।५।। यम इवापराधिषु दण्डप्रणयनेन विद्यमाने राशि न प्रजाः स्वमर्यादामतिकामन्ति प्रसीदन्ति च त्रिवर्गफला: विभूतयः ।।६०| सांस्य योगो लोकायतिकं चान्वीक्षिकी बौद्धाहतोः श्रुतेः प्रतिपक्षत्वात् (नान्वीक्षिकीत्वम् ) इति नेत्यानि मतानि ॥६१॥ प्रकृतिपुरुषज्ञो हि राजा सत्त्वमवलम्बते रजःफलं चापलं च परिहरति तमोभिर्नाभिभूयते ॥६॥ आन्वीक्षिक्यध्यात्मविषये, यो वेदयज्ञादिषु, वार्ता कृषिकर्मादिका, दण्डनीतिः शिष्टपालनदुष्टनिग्रहः ।।६३॥ चेतयते च विद्यावृद्धसेवायाम् ॥६४॥ अजातविद्यावृद्धसंयोगो हि राजा निरङ्कुशो गज इव सद्यो विनश्यति ।।६।। अनधीयानोऽपि विशिष्टजनसंसर्मात् परां व्युत्पत्तिमवाप्नोति ।।६।। अन्यैव काचित् खलु छायोपजलतरूणाम् ।।६७॥ वंशवृत्तविद्याभिजनविशुद्धा हि राज्ञामुपाध्यायाः ।।६।। शिष्टानां नोचैराचरन्तरपतिरिह लोके स्वर्ग च महीयते ॥१९॥ राजा हि परमं देवतं नासी कस्मेचित् प्रणमत्यन्यन्त्र गुरुजनेभ्यः ॥७॥ वरमज्ञानं नाशिष्टजनसेवया विद्या ॥१॥ अलं तेनामृतेन यत्रास्ति विषसंसर्गः ॥७२।। गुरुजनशीलमनुसरन्ति प्रायेण शिष्याः ।।७३ ।।
नीतिवाक्यामृत में राजनीति