SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ अयजनो देवानाम् ॥१५॥ अहन्सकरो मनुष्याणाम् ॥१६॥ आत्मा वै पुत्रो नैष्ठिकस्य ।।१७।। अयमात्मानमात्मनि संदधानः परां पूततां संपद्यते ॥१८॥ नित्यनैरिटमा नुनको मस्यः । ब्रह्मदेवपित्रतिथिभूतयज्ञा हि नित्यमनुष्ठानम् ॥२०॥ दशंपौर्णमास्याद्याश्रयं नैमित्तिकम् ॥२१॥ वैवाहिकः शालीनो जायाबरोऽघोरो गृहस्थाः ॥२२॥ यः खलु यथाविधि जानपदमाहारं संसारव्यवहारं च परित्यज्य सकलत्रोऽकलनो वा बने प्रतिष्ठते स वानप्रस्थः ।।२३॥ बालखिल्य-औदम्बरी-वैश्वानराः सद्यः प्रक्षल्यकश्चेति वानप्रस्थाः ॥२४॥ यो देहमानारामः सम्यग्विद्यानोलामेन तृष्णासरित्तरणाय योगाय यतते यतिः ॥२५॥ कुटीचरवह्वोदकहंसपरमहंसा यतयः॥६॥ राज्यस्य मूलं क्रमो विक्रमश्च ॥२७॥ आचारसंपत्तिः क्रमसंपत्ति करोति ॥२८॥ अनुसेकः खलु विक्रमस्यालंकारः ॥२२।। क्रमविक्रमयोरन्यतरपरिग्रहेण राज्यस्थ दुष्करः परिणामः ॥३० क्रमविक्रमयोरधिष्ठानं बुद्धिमानाहायबुद्धिर्वा ॥३॥ यो विद्याविनीतमतिः स बुद्धिमान ॥३२॥ सिंहस्येव केवलं पौरुषावलम्बिनो न चिरं कुशलम् ॥३३॥ अशस्त्रः शूर इवाशास्त्रः प्रज्ञावानपि भवति विद्विषां वशः॥३४॥ अलोचनमोचरे ह्यर्थ शास्त्रं तृतीयं लोचनं पुरुषाणाम् ।।३५| अनधीतशास्त्रश्चक्षुष्मानपि पुमानन्ध एव ॥३६॥ न ह्यज्ञानादपरः पशुरस्ति ॥३७॥ वरमराजकं भुवनं न तु मूखों राजा ||३८|| असंस्कार रत्नमिव सुजातमपि राजपुत्रं न नायकपदायामनन्ति साधवः ॥३९॥ न दुर्विनोताद्राज्ञः प्रजानां विनाशादपरोऽस्त्युत्पातः ॥४०॥ यो युक्तायुक्तयोरविवेकी विपर्यस्तमतिर्वा स दुर्विनोत्तः ॥४१॥ यत्र सद्भिराधोयमाना गुणा संक्रान्ति तद्रव्यम् ॥४२॥ यतो द्रव्याद्रव्यप्रकृतिरपि कश्चित् पुरुषः संकीर्णगजवत् ।।४३॥ द्रव्यं हि क्रियां विनर्यात नाद्रव्यम् ॥४४|| शुश्रूषा-श्रवण-ग्रहण-धारणाविज्ञानोहापोह-तत्वाभिनिवेशा-बुद्धिगुणाः ॥४५॥ श्रोतुमिच्छा शुश्रूषा ॥४६॥ नीतिवाक्यामृत का मूक सूत्र-पाठ १९५
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy