SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८४ काव्यमाला । तसिन्ननेकाद्भुतभोगभूमौ सहाप्सरोभिनवविभ्रमाभिः। . . यथाभिलाषं विषयानुभूत्या कालं नयामि म सुखी प्रभूतम् ॥ ५१ ॥ च्युत्वा ततः श्रीमति पुष्कराप(ह)द्वीपे महेन्द्राद्भुतविक्रमस्य । सूरप्रभस्याथ नरेश्वरस्य चिन्तागतिः सूनुरभूवमुाम् ॥ ५२ ॥ शस्त्रं च शास्त्रं च मया गृहीतं सम्यग्गुरुभ्यः शिशुनाभियोगात् । अतोऽर्थसिद्धिक्षमतां ममाप प्रज्ञापकर्षश्च पराक्रमश्च ॥ ५३ ॥ सुव्यक्तचित्रक्रमशोभमानपादैगरीयः कविकानुबन्धैः ।। कुर्वन्विनोदं दिवसान्कदाचिच्छोकैर्नयामि म तुरंगमैर्वा ॥ ५४ ॥ खैमर्थमादेश इवाथ शब्दः स राज्यभारं मयि संनिवेश्य । ... जगाम सारङ्गकदम्बकान्तं तपोवनान्तं सहितो विरत्या ॥ ५५ ॥ पैत्रं मया विष्टरमास्थितेन युद्धे विजिग्ये रिपुराजचक्रम् । राज्यं क्रमेणाधिगतं हि राज्ञां पराक्रमेण स्थिरतामुपैति ॥ ५६ ॥ अथापरेधुर्विदितप्रभावः सूरप्रभस्योपवने पुरस्य । समाययौ श्रीदममुख्यनामा मुनिः खयं धर्म इवाकृतिस्थः ॥ ५७ ।। तदागमे सत्यमृतव्यपेक्षं वृक्षेषु तत्र प्रसवाञ्चितेषु । .. त्रिकालसंविन्मधुपैरवापे यदूत्तमैः किं तदुदीरणेन ॥ ५८ ॥ ततोऽस्य पादाम्बुजवन्दनार्थमहं गतोऽहंकृतिवर्जितस्य । . तत्त्वोपदेशात्प्रतिबुद्धचेताः सुताय साम्राज्यमदामदीनम् ॥ ५९॥ ततश्च योगेन वपुर्वियोगं विधाय साधूत्तमदर्शितेन । माहेन्द्रनाना प्रथिते चतुर्थखर्गे महेन्द्रत्वमहं प्रपन्नः ॥ ६०॥ उद्दामवैडूर्यविमानगर्भ स्फुरत्प्रभा यत्र चकोरनेत्राः। .. १. शब्दः प्रत्ययादिः खकीयमर्थमादेश इव इत्यर्थः.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy