SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । गुणप्रतीतिः सुजनाजनस्य दोषेष्ववज्ञा खलजल्पितेषु । । अतो ध्रुवं नेह मम प्रबन्धे प्रभूतदोषेऽप्ययशोवकाशः ॥ २७ ॥ रम्याः सुराष्ट्राभिषया प्रसिद्धा दिवो निवेशा इव सन्ति देशाः। तिलोत्तमा यत्र कृषिः सुकेशी स्त्री मञ्जुघोषा च किल प्रकृत्या ॥२८॥ गोमण्डलैर्दिमुखविप्रकीर्णै हारहारप्रतिमैः समन्तात् । देशान्तराणां विभवेन दृप्ता येऽवज्ञया हासमिवोद्वहन्ति ॥ २९ ॥ वपुर्वनाली हरितोत्तरीयमुल्लासिसत्पत्रलतं वहन्त्याः । यत्रावनेर्विभ्रमदर्पणत्वं सरांसि बिभ्रत्यमलोदकानि ॥ ३० ॥ चक्षुः पराभूतमिवात्तखेदं संभूय संप्राप्तमुपद्रवाय । निरुन्धते गीतगुणेन गोप्यः क्षेत्रेषु यत्रानिशमेणयूथम् ॥ ३१ ॥ यत्रार्जुनीभिस्तुहिनार्जुनामिरध्यासिताः शाद्वलभूमिभागोः । धना नमस्तः पतिताः कथंचित्समं बलाकाभिरिवावभान्ति ॥ ३२ ॥ विराजमानामृषभाभिरामैामैर्गरीयो गुणसंनिवेशाम् । सरखतीसंनिधिभाजमुवीं ये सर्वतो घोषवतीं वहन्ति ।। ३३ ।। देशवर्णनम् । तत्र प्रसिद्धास्ति विचित्रहा रम्या पुरी द्वारवतीति नाना । पर्यन्तविस्तारिविशालशालच्छायाछवियत्परिखापयोधिः ॥ ३४ ॥ विलोलकल्लोलकरप्रहारैर्वारिणैर्घातनिपातिदन्तैः । यद्वप्रमुच्छेत्तुमजातशक्तिः फेनैर्विलक्षो हसतीव सिन्धुः ॥ ३५॥ . राधाव्यधाभ्यासपरेण यस्यामासाद्य तत्कार्मुककर्म दाक्ष्यम् । मनोभुवा विश्वमनांसि मन्ये नीतानि लोलान्यपि लक्ष्यभावम् ॥ ३६ परिस्कुरन्मण्डलपुण्डरीकच्छायापनीतातपसंप्रयोगैः । या राजहंसैरुपसेव्यमाना राजीविनीवाम्बुनिधौ रराज ॥ ३७ ॥
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy