SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ १ सर्गः] नेमिनिर्वाणम् । शशीव विश्वप्रमदैकहेतुर्यः पापचक्रव्यथको बभूव ॥ १६॥ देव्याः श्रियो यस्तनयः प्रसिद्धः श्रीकुन्थुरत्यद्भुतरूपमूर्तिः । विगाहमानोऽपि मनांसि नासीत्कस्यापि तापाय स वः पुनातु ॥ १७ ॥ अराय तस्मै विजितस्मराय नित्यं नमः कर्मविमुक्तिहेतोः । यः श्रीसुमित्रातनयोऽपि भूत्वा रामानुरक्तो न बभूव चित्रन् ॥ १८ ॥ तपःकुठारक्षतकर्मवल्लिमल्लिर्जिनो वः श्रियमातनोतु । कुरोः सुतस्यापि न यस्य जातं दुःशासनत्वं भुवनेश्वरस्य । आते मतिं श्रीमुनिसुव्रताख्यस्त्रिकालविद्वो विदधातु तुष्टः ।। अन्तर्निरुध्यान्न पयःप्रचारं येनात्मदुर्गादरिचक्रमस्तम् ॥ २ ममामि भत्त्या नमिनामधेयं सर्वज्ञमज्ञानतमोनिवृत्त्यै। . खिन्नो भवाध्वभ्रमणेन नूनं यो योगनिद्रामभजजिनेन्द्रः ।। श्रीनेमिनाथस्य जयन्ति कान्तास्ताः कान्तयो यामुनवीचिक: धर्मोपदेशे दशनप्रभाभिः फेनायितं यत्र विसारिणीभिः ॥ ॥ श्रीपार्श्वनाथः स जयत्यजनं यस्मिन्ननेकान्तविधायिहेतौं। खनिग्रहव्यग्रतया स्थितानामेकान्तमन्तन सुखं परेषाम् ॥ २३ ॥ श्रीवीरनाथाय नमः प्रकाममनन्तवीर्यातिशयाय तस्मै । अन्तःस्थमेकानपरिग्रहो यः कामादिचक्र युगपजिगायं ॥ २४ ॥ सा भारती वो विभवाय भूयाद्यदल्लकींगीतरसैन लक्ष्मीः । कराग्रपूते कमले वसन्ती सहानवस्थावतभङ्गमागात् ॥ २५ ॥ - एकः प्रकृत्यां जगतोऽनुकूलः प्रकाशमन्यः प्रतिकूल एवं । अतः सतोऽनाप्यसतोऽनुवृत्तौ विशेषशाली भवति प्रयत्नः ।। २६ ॥ १. पापसमूहस्य, पापिचक्रवाकानां वा. २. सुमित्रा दशरथपनी, अरतीर्थंकरमाता च. ३. रामो दाशरथिः, रामा अबलाः. -
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy