________________
'काव्यमाला।
इति वार्तमेव रजनीकरोदये मुदितः समुल्लसति यत्पयोनिधिः । क्षुभितः स किंतु विरहार्तिनिश्वसत्पथिकाङ्गनामुखमरुद्भिराहतः ॥३३॥ तिमिरोरगप्रसरबाधकप्रभाकलितं कुलाय इव वायुवम॑नि । द्विजराजदाररजनीसमुद्भवं शशिबिम्बमण्डलमिव व्यराजत ॥ ३४ ॥ रदिनो दिशां प्रियतमा इवाभ्रमोः पृथिवीभृतस्तुहिनपर्वता इव । सरितश्च जहुतनया इवाभवज्जगदाप राजमहसा परां श्रियम् ।। ३५॥ निखिलोपतापशमनोऽपि सत्पथप्रतिपत्तिहेतुरपि पङ्कपातिनाम् । सुकृतोपदेश इव वारिजन्मि(म्म)नां प्रतिबोधने प्रभुरभून्न चन्द्रमाः॥३६॥ अवलम्ब्य तत्किरणजालमायतं वसुधावतीर्णमधिरोहिणीसमम् । अधिरोहति स्म शशिसौधमुच्चकैः कमला विहाय कमलालयस्थितिम् ३७ प्रथमं मनांसि तदनु प्रियाः सखीः सहसा प्रहित्य निजवल्लभान्तिके । प्रयियासया खयमथाङ्गनाजनः प्रतिकर्मनिर्मितिसमाहितोऽभवत् ॥३८॥ यशसेव पुष्पधनुषो हिमथुतेर्महसेव चन्दनरसेन सुभ्रवः । अनुलिप्तनिर्मलशरीरयष्टयः स्फटिकाश्मरत्नघटिता इवाबभुः ॥ ३९ ॥ सहजारुणद्युतिभृतो तभ्रुवां चरणारविन्दतलयोरयं वृथा । निहितः किमर्थमिह यावको जगुर्मणिनूपुराणि रणितैरिति ध्रुवम् ॥४०॥ मणिभूषणावलिरदीपयत्तरां स्थितमेव रूपगुणमेणचक्षुषाम् । न खलु क्षपारमणरोचिषां कुतोऽप्युपनीय रोपयति रम्यतां शरत् ॥४१॥ मृगनाभिपत्रलतिका कपोलयोलिखिता सखीभिररुचन्नतभ्रुवाम् । तिमिरावलीवदनमिन्दुशात्रवं सहसा गतव शरणं तनीयसी ॥ १२॥ उरसि प्रगल्भकुचकुम्भभासुरे मणिहारयष्टिमयतोरणावलीम् । सविधे खवल्लभसमागमोत्सवे रमयांचकार चतुरः प्रियाजनः ।। ४३ ॥
१. 'यक्षे चन्द्रे च राजा स्यात्' इति त्रिकाण्डशेषः. २. 'निश्रेणिस्त्वधिरोहिणी' इत्यमरः..