________________
વર
काव्यमीला |
रवित्रस्ततमः स्तोमशरण्येषु महीरुहाम् । मिथुनानि निकुञ्जेषु प्रविष्टानि रतिं ययुः ॥ २८ ॥ भाले विहारखेदेन खिन्ने संसजता भृशम् । चकार पद्मपत्रेण काचितिलकमात्मनः ॥ २९ ॥ हास लाविलासस्य कीर्ति कुसुर्मधन्वनः । पुष्पमालाममन्यन्त युवानो योषिदर्पिताम् ॥ ३० ॥ 'दृढैरन्तर्गुणैर्वध्वा बद्धः कश्चिदसंशयम् । खजा नियन्त्रितः कोपाद्यन्न प्रचलितुं क्षमः ॥ ३१ ॥ पुष्पकन्दुकमुत्क्षिप्तमेकेनान्येन गृह्णती । पाणिना व्यरुचत्काचित्कणत्कङ्कणचारुणा ॥ ३२ ॥ नखप्रसूनपादाब्जपाणिपल्लवलीलया । रेजे राजवधूः काचिद्वनलक्ष्मीरिव खयम् ॥ ३३ ॥ वने वधूजनः पुष्पैः कृतहारोऽपि हेलया । विहाररुचिरेवासीत्स्त्रीवृत्तं वेत्ति कोऽथवा ॥ ३४ ॥ श्रमस्वेदाम्भसः पात्रे गात्रे हरिणचक्षुषाम् । दृशो निपत्य सानन्दं यूनां जग्मुर्जलार्द्रताम् ॥ ३५ ॥ मन्ये नेपथ्यकुसुमैर्वासिताः कुकुरस्त्रियः । अन्यथा कथमेतासां सुरभिः श्वासमारुतः ॥ ३६ ॥ समाकृष्टा मुखामोदगर्भको सुमसौरभैः । तासामुपरि भृङ्गाली केशकान्तिरिव व्यभात् ॥ ३७ ॥ मध्यंदिनार्कसंतापो मार्टुमाग इवात्मनः । जलानि विजिहीर्षूणां तासां स्वेदजलं व्यधात् ॥ ३८ ॥ यूना स्खलितगोत्रेण धृतेऽप्यातपवारणे ।