SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ५ सर्गः] नेमिनिर्वाणम् । तिरोहिते नाकिपताकिनां पदैः पदे निजस्यन्दनचक्रसंचिते । अदृष्टपूर्वेव दिनेशसारथेर्दुरुन्नयासीदुदयास्तवर्तनी ॥ ३४ ॥ रुषा वनान्तर्महिषाधिपानभि प्रधावता संयतभिन्नरश्मिना । हृतः खयानेन विसंस्थुलासनो यमः समालोक्यत कैर्न कौतुकात् ३५ अनोकहः सानुनि यत्र यत्र तत्तदेव देव्यो बहु मेनिरे स्थितौ । भवन्ति यद्वा मृगलोचनामनोमुदे प्रदेशास्तरुणाश्रयीकृताः ॥ ३६॥ अपास्तपर्याणखलीनबन्धना विभोर्यशः फेननिभेन बिभ्रतः । क्षणं निरीक्ष्याश्वमुखीः प्रहेषिताः सुरैर्हया वेल्लयितुं न शेकिरे ॥३७ ।। निवर्तयन्तं गतिमुत्तमां भुवो रजस्खलायाः समवाप्य संगमम् । मुदं व्रजद्भिः परमां तुरङ्गमैरकारि तैरश्वगुणोचितं तदा ॥ ३८॥ पुरोऽवतीर्णप्रियकण्ठमण्डले निषक्तदोःकन्दलमप्सरोजनः । अवातरद्वाहनतो विडम्बयन्गिरेस्तरुस्कन्धविलम्बिनीलताः ॥ ३९ ॥ अथावतीर्णामरवर्णिनीपदैः प्रसङ्गमासाद्य सुपर्वपर्वतः। बभार रोमाञ्चमिदरेच्चकैश्चरन्मणिप्रभां कूरकरम्बितैस्तटैः ॥ ४०॥ करावकृष्टायतशैवलांशुकान्वनेषु कल्पाश्चलिताः पतिं प्रति । तरङ्गहस्तैः परिरेभिरे गजान्कुलेऽपि कान्तासु कुतः सुशीलता ॥४१॥ सदा मदान्धैः प्रसभाभिगामिभिः प्रकम्प्यमानासु सरित्सु सिन्धुरैः। विहाय तीरं विहगीभिरुच्चकैरकारि पूत्कार इवारवो दिवि ॥ ४२ ॥ हृतानि पद्मानि मदेन यैर्गजैर्यदृच्छया मजनमञ्जविग्रहैः । त एव सत्पद्मरुचः कृतानदैः पराभवेऽपि प्रकृता जडाशयाः ॥४३॥ वितन्वतां दानमनारतोदयं परिस्फुरच्छायतया मनोहृताम् । बभूवुरालानपदेऽनुकारिणां करीश्वराणामथ कल्पपादपाः ॥ १४ ॥ १. 'वर्तन्येकपदीति च' इत्यमरः. २. वृक्षेण यूना च. ३. किंनरीः.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy