________________
३२
काव्यमाला। परिष्कृताः सूर्यरथाश्वसङ्गजैः खुरक्षतैः स्पष्टनखव्रणैरिव । श्रियं वहन्तीविषमेषुबाणजां दधानमाहादिपयोधरास्तटीः ॥ २४ ॥ दवोपगूढागुरुकुञ्जजन्मना घनेन धूमेन मरुद्विसारिणा । समन्ततः संभृतवन्दनश्रियः प्रधूपयन्तं ककुभः सहाम्बराः ॥ २५ ॥ विभाव्य दुष्पापमपापवृत्तिना जिनेन संसर्गमदूरमात्मनः । मुदाभिनृत्यन्तमिवानिलाहतैर्विलोलतालद्रुमबाहुभिर्मुहुः ॥ २६ ॥ प्रवृत्तदानोदकदीर्घनिर्झरैः समुद्वहद्भिः कटकानसंकटान् । विराजितं कानननागनायकैर्नगेतरैः सेवितुमागतैरिव ॥ २७ ॥ गुहाभिरावासनिवेशमायतैः शिलातलैः काञ्चनविष्टरानपि । . अंशेषयित्वा मरुतामिवैष्यतां निमित्तमातिथ्यमवस्थितं यथा ॥ २८॥
(त्रयोदशभिः कुलकम्) वितन्वतोच्चैः शरदभ्रविभ्रमं नमो विलङ्घयाप्रमुवल्लभेन सः। अथ प्रमोदादिव सन्मुखागतं तमाप सद्यो गिरिचक्रवर्तिनम् ॥ २९॥ द्विपाधिपैस्तुगतरैस्तुरङ्गमैः पताकिभिहेमविमानपतिभिः । अधिष्ठितप्रस्थततिस्ततो जवादवर्धतोचैरिव काञ्चनाचलः ॥ ३०॥ शिखण्डिनां ताण्डवदानपण्डितान्यथो रथानां ध्वनितानि तन्वताम् । भ्रमद्भिरासाद्य महीं महीभृतश्चिराय चक्रैश्चरितार्थता दधे ॥ ३१ ॥ चॅनाध्वनोऽत्यन्तघनस्य लङ्घनात्परिश्रमं प्राप्य पिपासयाकुलाः। पयः समाक्रष्टुमिवातिनिष्ठुरैः खुरैः खनन्तोऽद्रिमयुर्ययुव्रजाः ॥ ३२ ॥ फलानिः पुष्पाणि च वल्कलानि वा परोपकाराय वहन्ति हन्त ये । बभञ्जरोस्तानपि कुञ्जरास्तरून्कुतो नु मातङ्गकुले विवेकिता ॥ ३३ ।।
..१. अन्यपर्वतैः. २. संपूर्णीकृत्य. ३. आकाशस्य. ४. 'ययुरश्वोऽश्वमेधीयः' इत्यमरात्सुलक्षणाश्वसमूहाः. ५. 'आस्' इत्यव्ययं खेदे.,